________________
१३२
न्यायतात्पर्य दीपिका। केति। एवं हित्वादीनामप्रदेशवृत्तिपरमाणु वृत्तित्वेऽपि सूत्रे परत्वापरत्वदित्वपृथकत्वादीनामकारणत्वमिति वचनादनारम्भकत्वात् । अनारम्भकत्वमप्यमीषां बुद्धापेक्षत्वात् । तथाप्यप्रदेशवृत्त्यारम्भकपरमाणु उत्तिकमाणातिव्याप्तिः स्यात्तावच्छित्त्यै समानजातीयेतिपदम् । कम्मणः समानजातीयानारम्भक त्वात् । एव. मध्यप्रदेशकृत्त्यादिविशेषगाजुबा प्रणुकेनातिप्रसङ्गस्तत्परिहाराय गुणत्वे सतीति पदं स्वयमभ्याम् ।
अस्मिंश्वानुमाने पार्थिवपरमाणुरूपादिष्वेव नित्यत्वमनित्यत्व साधकेन प्रत्यनुमानन विरुध्यते संहारावस्थायां चतुर्जातीयानां परमाणूनां मिथः संयोग सति पार्थिवपरमाणुरूपादयस्तैजसाणुभिः पच्यन्त इति पार्थिवाणुरूपादौनामनित्यत्वात् । प्रत्यनुमानञ्जेदम् । पार्थिवपरमाणरूपादयोऽनित्या: पार्थिवपरमाणुरूपादित्वात् । घटगतरूपादिवदिति ॥ ८८ ॥ घष्ठं भेदमाचष्टे ।
आगमैकदेशविरुद्धो यथा सर्वेषां टेवर्षीणां शरीराणि पार्थिवानि शरीरत्वादम्मदादिशरीरवदिति ॥
आगमे देवर्षीणां गरीराणि पार्थिवाम्यतैजसवायवीयतया व्यावर्ण्यन्ते। अत्र तेषां सब्वेषामपि शरीरेषु पार्थिवत्वे साध्यमाने हेतोरेकदेश आगमन विरुध्यते ॥ ८ ॥
इत्यं षटकालात्ययापदिष्टभेदानुत्ता संप्रति प्रकरणसममुदाहरति ।
Aho! Shrutgyanam