________________
अनुमानपरिच्छेदः ।
२२३ प्रमाविषयत्वात् सैव प्रमेयं भवति । तहदेषामप्युभयव्यवहारविषयत्वमिति ॥ ७० ॥ इत्यं विरुद्धभेदानष्टौ स्पष्टीकत्य संप्रत्यनै कान्तिकमैदानाह ।
अनैकान्तिकभेदास्त्विति । पक्षत्रयव्यापको यथानित्यः शब्दः प्रमेयत्वादिति।
तु शब्दो विरुद्धादनकान्तिकभेदार्थः । अनैकान्तिकभेदा उच्यन्ते इति वाक्यशेषः । प्रमेयत्वं पक्षे विपक्षे सपक्षे चास्तीति पक्षवयव्यापकत्वम् ॥ ७१ ॥ द्वितीयं भेदं भणति।
पक्षव्यापकः सपक्षविपक्षकदेशत्तिर्यथानित्यः शब्दः प्रत्यक्षवादिति ॥
अत्र प्रत्यक्षत्वमस्मदादीन्द्रियग्रहणयोग्यत्वं विवक्षितमन्यथा योगिप्रत्यक्षत्वेन पक्षत्रयौव्याप्तप्रायत्तेः। तत्पक्षे सर्वत्राप्यस्ति श्रवणग्राह्यत्वात् । सपने घटादी प्रत्यक्षत्वमस्ति न हाणुकादौ विषक्षे सामान्यादावस्ति न व्योमादाविति सपक्षविपक्ष कदेशवृत्तिलम् ॥ ७२ ॥ तृतीयं भेदमभिधत्ते ।
पक्षसपक्षव्यापको विपक्षकदेशत्तियथा गौरयं विषाणिवादिति ॥
विषाणिन एवार्थस्य पक्षीकतत्वात्य विधाणित्वम् । सपने च गोवर्गे मनास्ति नर्सकस्थापि विषाणोत्यत्तियोग्यत्वात् ;
Aho! Shrutgyanam