________________
१२२
न्यायतात्पर्य्यदीपिका।
विपक्षव्यापक: पक्षकदेशत्तियथा आकाशविशेषगुण: शब्दोऽ पदात्मकत्वादिति ॥
शब्दो विधा पदात्मकोऽपदात्मकश्चेति । पदं तु सुप्तिङन्तम् । तत्रापदात्मकलं भेर्यादिशब्देवस्ति न तदितरेष्वपि इति पक्षकदेशत्तित्वम् । विपक्षे आकाशविशेषगुणव्यतिरिक्त सर्वत्रापदात्मकत्वं व्यक्तमस्तीति विपक्षव्यापकलम् ॥ ६८ ॥
ननु ये पक्षव्यापकास्त एव विरुद्धभेदा। न पक्षकदेशहत्तय इति परं शकते।
ननु चत्वार एव विरुद्धभेदा नान्ये तेषामसिद्धलक्षणोपपन्न त्वादिति ॥ __ ये सकलं पक्षमक्षणुवन्ति त एव विरुद्धभेदा भवन्ति । नान्ये पक्षकदेशवृत्तयस्तेषामसिद्धलक्षणोपपत्रत्वादनिश्चितपक्षहत्तित्वेन असिद्धवं विरुद्धत्वञ्च मिथो विरुद्धमेकस्य न स्यादिति तात्पर्य्यार्थः ॥ ३८ ॥ परिहरति ।
नैष दोष उभयलक्षणोपपत्रत्वे नोभयव्यवहारविषयत्वात् तुलायां प्रमाणप्रमेयव्यवहारवदिति ।
असिद्धविरुद्धलक्षणोपपनत्वेनोभयव्यवहारविषयत्वात् एष त्वदुक्तो दोषो न भवतीत्यर्थः । अत्र दृष्टान्तं स्पष्टयति तुलाया. मिति। यथा एकैव तुला हेमादिद्रव्येयत्ताहेतुत्वात्प्रमीयते अनयेति प्रमाणं भवति । इयं शुद्धाशुद्धा वेति यदा परीक्ष्यते तदा
Aho! Shrutgyanam