SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः। १२१ सति सपने चतुरो विरुद्धभेदानभिधायासति सपक्षे तानाह । __ असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा आकाशविशेषगुण: शब्दः प्रमेयत्वादिति ॥ सपक्षेत्वसति चत्वारो विरुद्धभेदा अभिधीयन्त इति वाक्योपस्कारः। अत्राकाशविशेषगुणत्वं साध्यं तच्च शब्दव्यतिरिक्तोऽन्यत्र कापि नास्तीति सघनाभावः । एवमुत्तरेषु विष्वपि हेतुषु जेयम् । हेतोः पक्षविपक्षव्यापकत्वं प्रतीतमेव ॥ ६५ ॥ द्वितीयं भेदं भणति। पक्षविपक्षकदेशत्तियथा । आकाशविशेषगुण: शब्दः प्रयत्नानन्तरीयकत्वादिति ॥ प्रयत्नानन्तरीयकस्य हेती: पक्षे प्रथमशब्दे मद्भावाच्छब्दज. शब्देष्वसद्भावात् आकाशविशेषगुणव्यतिरिक्त विपक्षे घटादावस्तिवादात्मादावनस्तित्वाच्च पक्षविपक्षकदेशत्तित्वम् ॥ ६६ ॥ तृतीयं भेदं व्याचष्टे । पक्षव्यापको विपक्षकदेशत्तिर्यथा आकाशविशेषगुणः शब्दो बाधेन्द्रियग्राह्यत्वादिति ॥ ग्राह्यत्वं ग्रहणयोग्यत्वं तत्यक्षीकृतेषु सर्वेष्वपि शब्देवस्तीति पक्षव्यापकत्वं विपक्षे आकाशविशेषगुणत्वव्यतिरिक्त घटादौ बाह्येन्द्रियग्राह्यत्वमस्ति सुखादौ नास्ति इति विपक्षेकदेशवत्तित्वम् ॥ ६ ॥ चतुर्थभेदमभिदधाति । Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy