________________
१२०
न्यायतात्पर्य्यदीपिका।
____ अत्र वाह्येन्द्रियग्राह्यत्वादित्युक्ते योगिबाह्येन्द्रियग्राह्यः पर माणभिः सपक्षवृत्तित्वाविरुद्धत्वं न स्यादित्यस्मदादिग्रहणम् । अस्मदादिबाह्येन्द्रियग्राह्यत्वं सामान्येऽप्यस्तीति सामान्यवत्त्वे सतीति पदम् । अयं हेतुर्विपक्षे घटादावस्ति सुखादो नास्ति तस्यान्तःकरणग्राह्यत्वादिति वियतैकदेशवर्ती ॥ ६२ ॥ तृतीयं भेदं व्यनक्ति।
पक्षविपक्षकदेशत्तिय॑था। नित्यः शब्दः प्रयत्नानन्तरीयकवादिति ॥
पक्षीकृतेषु सर्वशब्देषु प्राये एव शब्दे प्रयत्नानम्तरीयकत्वं प्रयत्नतारतम्यानुविधायित्वमस्ति न द्वितीयवतीयादिशब्देषु तेषां शब्दजत्वादिति पक्षकदेशत्तित्वं हेतोः। तथा विपक्षे घटादी सद्भावात् तृणादावसद्भावाच्च विपक्षकदेशहत्तित्वं चेति ॥ ६३ ॥ चतुर्थ भेदं समर्थयते।
पक्षकदेशत्तिविपक्षव्यापको यथा नित्या पृथिवी अतकवादिति ॥
पृथिवी हिधा परमाणु कार्यरूपभेदात् । तथाच प्रशस्तपाद भाथम् । सा बिधा नित्या चानित्या च । परमाणुलक्षणा नित्या कार्यलक्षणावनित्येति ।
तत्र परमाणुरूपायां पृथिव्यां कतकत्वं नास्ति कार्यरूपायामस्तीति पक्षकदेशवृत्तित्वम्। विपक्षेऽनित्ये सर्वत्रापि कृतकत्वमस्त्येव । एषु चतुर्वपि भेदेषु आत्मादौ नित्ये सपक्षे सत्यपि हेवत्तिय॑तति ॥ ६४ ॥
Aho! Shrutgyanam