________________
अनुमानपरिच्छेदः ।
प्रागुक्ता एते दादशासिडभेदा अनित्यः शब्दः चाचुषत्वादित्यादिवद्यदा वादिप्रतिवादिनोरसिद्धत्वेन वक्तुमिष्टास्तदोभयासिद्धा भवन्ति । यदा तु वादिप्रतिवादिनो रेकतरासिडत्वेन मोमांसकं प्रति शब्दोऽनित्यः कृतकत्वादित्यादिवद्दिमणिषितास्तदान्यतरसिद्धा भवन्तीत्यर्थः । अनयोर्मध्ये अन्यतरासिद्धः प्रतिकार्य्यो भवति । हेत्वन्तरेण तस्य साधयितुं शक्यत्वात् । तदुक्तम् । योऽपि तावत् स्वयं सिद्धः परासिडोऽभिधीयते ।
भवेत्तत्र प्रतीकारः ततोऽसिद्धेऽपि का क्रिया ॥ ६० ॥ एवं दादशासिद्धभेदानभिधाय विरुद्धभेदानाह ।
११८.
विरुद्धभेदास्तु सति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा नित्यः शब्दः कार्य्यत्वादिति ॥
विरुद्धभेदा उच्यन्ते इति शेषः । तु शब्दोऽसिद्धाद्विरुद्धव्यवच्छेदकः । विरुद्धभेदास्तु सपने सत्यसति च भवन्ति । ततः प्राक् प्राचो भेदान् व्याचष्टे सति सपचे इत्यादि । अन काय - लक्षणो हेतुः पचे शब्दे विपचे घटादी च वर्त्तते । आत्मादौ सपक्षे सत्यपि न वर्त्तत इति विरुडो हेतुः । कार्यत्वं तु प्रागसतः सत्तासमवायः । तच्च प्रध्वंसादिषु नास्तीति कार्यत्वहेतोर्विरुद्धत्वमेवान्यथाकारणात् स्वात्मलाभः कार्य्यत्वमिति कार्यत्वलचणे कृते प्रध्वंसादिषु तत्सत्त्वेनानैकान्तिकत्वं स्यात् ॥ ६१ ॥
द्वितीयं भेदमाह ।
विपक्षैकदेशवृत्तिः पचव्यापको यथा नित्यः शब्दः सामान्य
वत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वादिति ॥
Aho ! Shrutgyanam