SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । ११७ त्वेनैवानित्यत्वसिड सामान्यवत्त्वमिति विशेष्यं व्यर्थम् । अवीत्तरत्र च व्यर्थमिति पदं विशेष्यासिद्धविशेषणा सिद्धव्यव च्छेदार्थम् ॥ ५५ ॥ 'नवमं भेदं भगति | व्यर्थविशेषणासिद्धो यथा अनित्यः शब्दः सामान्यवत्त्वे सति कृतकत्वादिति ॥ व्यर्थविशेषणचासावसिद्धश्चेति समासः । अत्रापि सामान्यवत्त्वमिति विशेषणं व्यर्थम् । इह पूर्च्छत्र च कृतकत्वस्यासिडत्वं नित्यत्ववाद्यपेचयान्यथा व्यर्थविशेष्यत्वं व्यर्थविशेषणत्वं च स्यात्र त्वसिद्धत्वमिति ॥ ५६ ॥ दशमं भेदं दिशति । *सन्दिग्धासिडो यथा धूमवाष्पादिविवेकानिश्वये कचिदाहाम्निमानयं प्रदेशो धूमवत्त्वादिति ॥ किमयं धूमो बाष्पो वेत्येवं साधनेऽनिश्विते सत्यत्त्र प्रयुक्तं धूमवत्त्वं हेतुः सन्दिग्धासिडो भवति । एतेन साधनं निश्चितमेव प्रयोक्तव्यं नान्यथेत्युक्तम् ॥ ५७ ॥ एकादशं भेदं प्रकाशयति । सन्दिग्धविशेष्यासिद्धो यथाद्यापि रागादियुक्तः कपिल: पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वादिति ॥ * The reading adopted by the commentator here differs somewhnt from the text ( See page 8, Line 11 ). The word af is omitted in the text (See p 8, L 141. Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy