SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११६ न्यायतात्पर्य्यदीपिका। कारणभूतकोष्ठवातानुवर्तनं शब्दसन्तानोपलम्भात् । अतएव प्रतिवातं न शब्दोपलम्भः । कोष्ठवायुप्रतिघातादिति ॥ ५२ ॥ षष्ठं भेदं व्याचष्टे । प्रायासिद्धो यथास्ति प्रधानं विश्वपरिणामित्वादिति ॥ आश्रयेणासिद्धः आश्रयासिद्धः। सांख्यमते इदं विश्वं प्रधानात्मकं प्रधानं च सुखदुःखमोहस्वभावानां सत्त्वरजस्तमसां साम्यावस्था प्रक्ततिरुच्यते । प्रधानस्य स्वरूपं चैतत् । त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्त तथा प्रधानं तद्दिपरीतस्तथा च पुमान् ॥ विखं परिणामोऽस्त्यस्य विश्वपरिणामि तद्भावस्तत्त्वं तस्मादिखपरिणामित्वावेतोरस्य प्रधानस्यास्तित्वं यदा सांख्येन माध्यते तदा नैयायिकमते तस्यासिडलात् तनिष्ठो हेतुराश्रयासिद्धः स्यादिति ॥ ५३ ॥ सप्तमं भेदमभिधत्ते। आश्रयैकदेशासिद्धो यथा नित्याः प्रधानपुरुषेवरा अकृतकत्वादिति ॥ ___ अत्र पक्षीकतानां प्रधामादीनां मध्ये प्रधानस्यैकदेशस्य नैयायिकमते असिद्धत्वादाश्रयैकदेशासिद्धत्वं हेतोः ॥ ५४ ॥ अष्टमं भेदं व्याचष्टे । व्यर्थविशेष्या सिद्धो यथानित्यः शब्दः कतकत्वे सति सामान्यबत्त्वादिति ॥ व्यर्थविशेष्यश्वासावसिदश्चेति विग्रहः। अव शब्दस्य कतक Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy