________________
११५
अनुमानपरिच्छेदः । भागे पक्षकदेशेऽसिद्धो भागासिद्धः । प्रयत्नः शब्दजनको व्यापारस्तदनन्तरं भवः प्रयत्नानन्तरीयकस्तगावात् । कः प्रयत्नः शब्दोत्पत्ताविति चेत् । उच्यते । .. शब्दो वर्णावर्णात्मकतया हेधा। अकारादिवर्णात्मकस्तदितरः शङ्खादिहेतुरवर्णात्मकः। तत्र वर्णात्मकस्योत्पत्तिरवम् । प्रात्ममनसोः संयोगात् स्मृत्यपेक्षा वर्णोच्चारणेच्छास्तदनु प्रयत्नस्तमयेक्ष्यमाणादात्मवायुसंयोगाहायुकर्म म चोड़े गच्छन् कण्ठादौनभिहन्ति । ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगात् वर्णोत्पत्तिः। अवर्णात्मकस्तु भेरौदण्डसंयोगाद्यपेक्षा र्याकाशसंयोगाहेणुपर्व विभागापेक्षात्पर्वाकाशविभागाञ्चोत्पद्यते इति । ईदृशं प्रयत्नानन्तरीयकत्वमाद्य एव शब्दे विद्यते न हितोयटतीयशब्दादौ तेषां शब्दजत्वात् ।
तथाच प्रशस्तपादभाष्यम् । “शब्दाच संयोगविभागनिष्पवाहोचीसन्तानवच्छब्दसन्तान इति” । यथा जलवीच्यास्तदव्यवहिते देशे वोच्थन्तरमुपजायते ततोऽन्यत्ततोऽप्यन्यदित्यनेन क्रमेण वौचीसन्तानो भवति । तथा शब्दादुत्पन्नात्तदव्यवहित देशे शब्दान्तरं ततोऽन्यत्ततोऽप्यन्यदित्यनेन क्रमेण शब्दसन्तानो भवतीत्यर्थः ।
शब्दात्कथं शब्दोत्पत्तिरिति चेत् । श्रोत्रशब्दयोनिस्कियत्वेन गमनागमनाभावादिन्द्रियाणां प्राप्यकारिवात् प्रकारान्तरेण चानुपलम्भाहीचौसन्ताने स्वोत्पत्तिदेशे विनश्यन्तीनामपि वीचीनां खामन्त्रदेशे स्वसदृशकार्यारम्भपरम्परयान्य देशप्राप्तिदर्शनाच्छब्दो. त्यवः शब्दसन्तानः परिकल्पाते। न चानवस्था यावनिमित्त
Aho! Shrutgyanam