________________
११४
न्यायतात्पर्य्यदीपिका।
चाक्षुषत्वं स्वरूपेणासिहं शब्दस्याचाक्षुषत्वात् । हेतुश्च निश्चित. धम्भिधम्मलेन प्रसिद्ध एव गवेष्यते ॥ ४८ ॥ द्वितीयं भेदमाह। व्यधिकरणासिडो यथानित्यः शब्दः पटस्य कृतकत्वादिति ॥
पक्षाहिसदृतमधिकरणं यस्यासौ व्यधिकरण: व्यधिकरणश्चासावसिदश्चेति व्यधिकरणासिद्धः । पक्षव्यतिरिक्ताधार इत्यर्थः । अत्र पटस्य कृतकवे शब्दस्य किमायातं नान्यक्कतकत्वेनान्योऽ नित्यो भवति । चैवभुक्तौ मित्रस्य सप्तिप्रसङ्गात् ॥ ४ ॥ तौयं भेदं भणति ।
विशेष्यासिडो यथानित्यः शब्दः सामान्यवत्वे सति चाक्षुषत्वादिति ॥
विशेष्येण चाक्षुषत्वलक्षणेनासिद्धो विशेष्यासिद्धः। यद्यपि चाक्षुषत्वं शब्दे स्वरूपत एवासिई तथाप्यत्र विशेष्यतया तदुपादानाविशेष्यासिद्धत्वं हेतोः। सामान्यं चाक्षुषमस्ति न च तदनित्यं तद्दावच्छेदार्थ सामान्ववत्त्व सतौति पदग्रहणम् ॥ ५० ॥ चतुर्थ भेदं समर्थयति ।
विशेषणासिनी यथानित्यः शब्दश्चाक्षुषत्वे सति सामान्य स्वात् ॥
चाक्षुषत्त्वे सतौति विशेषणेनासिद्धो विशेषणासिद्धः सामान्यवत्त्वादिति पदं प्राग्वत् ॥ ५१ ॥ पञ्चमं भेदं प्रपञ्चयति। भागासिद्धो यथानित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति ॥
Aho! Shrutgyanam