________________
११२
न्यायतात्पर्य दीपिका।
अनेकान्तिकं प्रकटयति।
पक्षमपक्षविपक्षवृत्तिरनैकान्तिक इति ॥ एकस्मिन्नन्ते साध्ये नियत ऐकान्तिकस्तहिपर्यस्तोऽनकान्तिको यो हेतुः पक्षत्रयं व्यानोति सोऽनेकान्तिको भवति । पक्षवृत्तिरिति कृतेऽनध्यवमितत्वं स्यात्तबिकृत्त्य सपक्षेति पदम् । सम्यगधेतावतिव्याप्तिव्यवच्छित्त्यै विपक्षेति पदम् ॥ ४३ ॥ अनध्यवसितं प्रकाशयति ।
साध्यासाधकः पक्ष एव वर्तमानोऽनध्यवसित इति ॥ यो हेतुः सपक्षविपक्षयोः सतोरसतोर्वा न भवति । केवलं पक्षं व्याप्नोति स सजातीयविजातीयव्यावृत्तित्वेनानिश्चितोऽनध्यवसितनामको हेवाभासो भवति। पक्ष एव वर्तमान इत्यत केवलव्यतिरेक्यप्यनध्यवसितः स्यात्तदपास्तु साध्यासाधक इति पदम् ॥ ४४ ॥ कालात्ययापदिष्टमाचष्टे । प्रमाण बाधिते पक्षे वर्तमानो हेतुः कालात्ययापदिष्ट इति ॥
प्रमाणानुपहतपक्षोपन्यासानन्तरं हेतूपन्यासस्य समय: कालस्तदत्यये तदतिक्रमे सत्यपदिष्टः कालात्ययापदिष्टः प्रत्यक्षादिप्रमाण बाधिते पक्षे यो हेतुर्वर्तते स कालात्ययापदिष्टो भवति । सम्यगधेतो: कालात्ययापदिष्टवानिवृत्त्यर्थं प्रमाणबाधितंति पदम् ॥ ४५ ॥ प्रकरणसमं लक्षयति ।
स्वपरपक्षसिद्धावपि विरूपो हेतुः प्रकरणसम इति ॥
Aho! Shrutgyanam