________________
११०
न्यायतात्पर्यदीपिका ।
स्यात्तर्हि लोटवदप्राणादिमङ्गवेदप्राणादिमत्त्वेन लोट्रस्य निरामकस्य दर्शनादिति तात्पर्यार्थः ।
जीवदिति पदं शवत्वपरिहारार्थम् । प्रयोगस्त्वित्थम् । इदं जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यत्र सात्मकं तत्र प्राणादिमद्यथा लोष्टमिति ॥ ३७ ॥
अधुना सम्यगधेतुस्वरूपप्रतिपत्त्यै हेत्वाभासान् व्याचिख्यासुस्तान् प्रस्तावयति ।
एतेन हेत्वाभासानामहेतुत्वमुक्तं भवतीति ॥
एतेन हेतुस्वरूपभयनेन हेत्वाभासानाम हेतुत्वमुक्तम् । हेतुलक्षणरहितत्वादिति भावः ॥ ३८ ॥
तेषां लक्षणमाह ।
हेतुलक्षणरहिता हेतुवदवभासमाना हेत्वाभासा इति ॥
तेन
हेतुलक्षणं प्रागुपवर्णितं पाञ्चरूप्यं चातुरूप्यं वा । त्रिकलाः पञ्चम्यन्तत्वेन तृतीयान्तत्वेन वा हेतुवत् स्फुरन्तो तव हेत्वाभासा भवन्तीत्यर्थः । हेत्वाभासा इति लक्ष कृते साकाङ्गं वचस्तनिवृत्त्यर्थं हेतुवदवभासमाना इति पदम् । सम्यग्वेतावतिव्याप्तिच्छिदे हेतुलक्षणरहिता इति पदम् ।
हेतुलक्षणरहितत्वं तु हेतुव्यतिरिक्ते सर्व्ववाप्यस्तीति तत्र हेत्वाभासत्वभिदे हेतुवदवभासमाना इति पदम् ॥ ३८ ॥
अथ तान्नाम्रा साम्नायं निर्दिशति ।
Aho! Shrutgyanam