________________
अनुमानपरिच्छेदः ।
कादाचित्कमिति साध्याभावपूर्वकः साधनाभावो व्यतिरेकव्याप्तिः । आकाशादीति व्यतिरेकदृष्टान्तः ।
अत्र सर्वस्य काय्र्यस्य पचीकृतत्वादेव सपक्षाभावादन्वयव्याप्तिन भवत्येव ।
१०८
ननूदकाद्याहरणकार्य्यस्यासर्व विदस्मदादिकर्तृपूर्व्वकस्य प्रत्यक्षेणोपलम्भात्प्रत्यक्षबाधितः पच इति चेन्न । तत्प्रति तस्थापि सवित्त्वादन्यथा यदि तत्तेन न ज्ञायेत तर्हि न क्रियेत क्रियाया जतिपूर्वकत्वात् ।
न चैवं यत्किञ्चित्कर्त्तृपूर्वकं साध्यं स्याद्दिपचे बाधकसहितस्यैव केवलव्यतिरेकिण: माध्यमाधकत्वाभ्युपगमात् ।
aara शशविषाणादिपूर्वकत्वमपि साध्यं निरस्तं ज्ञेयम् | तदभावे तदुत्पाद्यस्य कस्याप्यभावात् । सर्व्वविदभावे तु काय - चित्रामेव न स्यात् । एतेन केवलव्यतिरेको तर्कसहित एव प्रमाणं भवतीत्युक्तम् । अन्वयाभावात् केवलव्यतिरेकाप्रमाणमिति चेन्न । व्यतिरेकाभावे केवलान्वयिनोऽप्यप्रामाण्यप्रसङ्गात् । ततः केवलव्यतिरेकी प्रमाणमवाधितविषयत्वात् प्रतिपतत्वे सति सर्व्वविपक्षाद्यावृत्तत्वादन्वयव्यतिरेकिवदिति ॥ २६ ॥
प्रसङ्गोत्रेयिनमाह |
प्रसङ्गदारेण वा यथा नेदं निरात्मकं जीवच्छरीरमप्राणादिप्रसङ्गाल्लोष्टवदतीति ॥
प्रसङ्गशब्द एव द्वारमुपायस्तेन प्रसङ्गशब्दोपादानेनेत्यर्थः । इदमनुमानं नैरात्मावादिनं प्रति । यदि जीवतां शरीरं निरात्मकं
Aho ! Shrutgyanam