SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छंदः। यथा करतलादीनि प्रमेयत्वात् कस्यचित्प्रत्यक्षाणि तथा अदृष्टादौन्यपि योग्यादेः प्रत्यक्षाणि भवन्तीत्यर्थः । अयच हेतुः समस्तवस्तु स्तोमस्य प्रमेयत्वाकान्या सर्वसपक्षव्यापकस्तथा कस्यचित्प्रत्यक्षत्वे भाध्ये अप्रत्यक्षस्य कस्यापि वस्तुनोऽभावादेवाविद्यमानविपनश्च केवलान्वयिनः प्रथमो भेदो जेयः ॥ ३३ ॥ द्वितीयं भेदमुदाहरति। सैव प्रतिज्ञा मीमांसकानामप्रत्यक्षत्वात् अस्मत्सखादिवदिति सपक्षकदेशत्तिरिति ॥ अत्र विवादास्पदोभूतान्यदृष्टादौनोत्यादि प्रायेव प्रतिज्ञातानि मौमांसकानामप्रत्यक्षवादिति हेतुना कस्यचित्प्रत्यक्षाणि साध्यन्ते । यथास्मत्सुखानि मौमांसकानामप्रत्यक्षाण्यपि अस्मत्प्रत्यक्षाणि तथादृष्टादौनि मौमांसकाप्रत्यक्षाणि कस्यचिद् योग्यादेः प्रत्यक्षाणि भवन्तीत्यर्थः। कस्य चित् प्रत्यक्षवस्थ सर्वत्रापि विद्यमानत्वात् अविद्यमानविपक्षी घटादी मीमांसकानामप्रत्यक्षत्वस्य हेतोरभावात् सपक्षकदेशवी केवलान्वयिमो ऽयं द्वितीयो भेदः । मीमांसकानामप्रत्यक्षत्वन्त्वत्र मौमांसकप्रत्यक्षातिरिक्तप्रमाख ग्राह्यलं विवक्षितमन्यथा मीमांसकानां प्रत्यक्षत्वनिषेधेन तद्यतिरिक्तपुरुषप्रत्यक्षत्वस्य हेतुत्वे साध्यवैशिध्य स्यानिषेधमात्रस्य च हेतुले शविषाणादिना व्यभिचारी भवेत्तस्त्र मीमांसकाप्रत्यक्षवेऽपि कस्यचिदप्रत्यक्षत्वात् । न च केवलान्वयो न प्रमाण मिति वाचम् । व्यतिरेकव्याप्ताभावेऽपि तस्य प्रमाण Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy