________________
न्यायतात्पर्य्यदीपिका। केवलान्वयौति शब्दार्थः पूर्ववत् । यो हेतु: पक्षं व्याप्नोति सपक्षे च वर्तते विपक्षो यस्य नास्त्येव स व्यतिरेक व्याप्ताभावात् केवलान्वयीत्युच्यते । पक्षव्यापक: केवलान्वयोति कृते व्यतिरेकिणि अतिव्याप्तिस्तावच्छित्त्यै सपक्षवृत्तिरिति पदम् । अन्वयव्यतिरेकिण्यतिप्रसक्तिप्रतिषिा अविद्यमानविपक्षेति पदम् । तथानुक्त मपि कालात्ययोपदिष्ट त्वादिदोषापनुत्त्यै अबाधितविषयत्वासत्प्रतिपक्षत्वे सतीति विशेषणमिह केवलव्यतिरेकिणि च विज्ञेयम् । केवलान्वयीत्यनेन ये न विना केनचित् कस्यचिदभावो ह्यविनाभाव इति व्युत्पत्तिबलमवलम्बमाना व्यतिरेकव्याप्तिमेव मन्वते तान्निराचष्ट। अभावस्य भावपूर्वकत्वेन व्यतिरेकव्याप्तेरन्वयपूर्वकत्वात् । ततो विपक्षाद्यावृत्तिविकलचातूरूप्यशाली केवला. न्वयीत्युक्तम् । स च पूर्ववदिति अन्वयव्यतिरेकिवत् सर्वसपञ्चव्यापकमपक्षकदेशवृत्तिभंदाधा भवति ॥ ३२ ॥ तत्राद्यं भेदमुदाहरति ।
*तद्यथा विवादास्पदीभृतान्यदृष्टादीनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात् करतलादिवदिति सर्वपक्षव्यापक इति ॥
पुण्यपापस्वर्गेश्वरादौनामदृष्टानां प्रत्यक्ष त्वं मोमांसका न मन्वते । तान् प्रति नैयायिकोऽनुमानयति विवादेत्यादि । अत्रा. दृष्टादीनां प्रमेयत्वाडेतोः कस्यचिद् योग्यादेः प्रत्यक्ष साध्यते ।
* The reading adopter loy the comtuen taller lucre, diller's suni what from our text (Sec pe 0, Ling 18).
Aho! Shrutgyanam