________________
अनुमानपरिच्छेदः ।
१०५
ग्राह्येण नित्येनात्मनानैकान्तिकत्वं स्यात्तनिवृत्त्यै च बाह्येतिपदम् । तथापि योगिनां बाह्येन्द्रियग्राह्येर्नित्यैः परमाणुभिर्व्यभिचार स्तदपत्ये अस्मदादीति पदम् । न च तेऽस्मदादिबाह्येन्द्रियग्राह्याः । एवमप्यस्मदादिबाह्येन्द्रियग्राह्येण नित्येन सामान्येनातिव्याप्तिस्तदपास्त्ये सामान्यवत्त्वे सतीति पदम् । न च सामान्येऽन्यकामान्यं अनवस्थादौस्थ्यानुषङ्गात् । ग्रव शब्दस्यानित्यत्वं साध्ये यावाननित्यः पक्षस्तावान् सर्वोऽपि सपक्षस्तत्र घटादावयं हेतुरस्ति सुखादौ नास्ति तस्यान्तः करणवेद्यत्वात् । ततः सपक्षेकदेशत्तित्वं हेतोः । अनयोर्डयोरपि हेत्वोरन्वयव्यतिरेकित्वाहयतिरेक:
स्वयमभ्यूह्यः
ः ।
सपक
ननु पक्षे भागासिद्धत्ववत् सपचैकदेशवर्त्तित्वमपि हेतोर्दोष इति चेत् । न । भागासिद्धत्वे हेतोः स्वरूपमेव न स्यात् देशवृत्तित्वे तु को दोषः । किं स्वरूपहानिः साध्यासाधकत्वं वा । नाद्यः कल्पः पक्षधर्मत्वेनैव तस्य निपतत्वात् । न द्वितीयोऽविनाभावेनैव तस्य व्यवच्छिनत्वात् । किञ्च यदि सपक्षैकदेशवृत्तिरपि दोषस्तदा यस्य सर्वथा सपक्षएव नास्ति स केवलव्यतिरेकी कथं प्रामाण्यसङ्कटमाटोकतेति यत्किञ्चिदेतत् ॥ २१ ॥ अथ केवलान्वयिनं लक्षयति ।
*पक्षव्यापकः सपक्षवृत्तिरविद्यमानविपक्ष: केवलान्वयो पूर्ववविध इति ॥
In our text the word "सच" is added before the word qfafafau: ( Vide page 6, Line 16 ).
१४
Aho! Shrutgyanam