________________
अनुमानपरिच्छेदः ।
१०३ विनाभावस्तदा रूप्यान्न किञ्चिदन्यदुक्त मिति हेतोर्बाधस्तदवस्थ एव।
ननु प्रत्यक्षादिविरोधः किं पक्षस्य दोषः किं वा हेतोः । उच्यते । न पक्षस्य दोषोऽनुमेयस्य तादवख्यात् । नापि हेतोः । खविषये तस्य सामात् विषयान्तर सर्वस्यवासामात् । किन्तु प्रतिपादयितुरिदं दूषणम् यः साधनमविषये प्रयुक्ती । यदि प्रतिज्ञातार्थप्रतीतियोग्यताविरहः प्रतिज्ञातार्थ प्रतिपादनयोग्यताविरहश्च दोषोऽभिमतस्तदा कर्मकरणयोरपि स स्यादिति हेतोर्बावविध्वंसार्थमबाधितविषयत्वमङ्गीकार्यमिति ॥ २७ ॥ पञ्चमं रूपं प्रपञ्चयति । साध्यतविपरीतयो: साधनस्यात्रिरूपत्वमसत्प्रतिपक्षत्वमिति ॥
साध्यं शब्दादेनित्यवादिकं तहियरीतमनित्यत्वादिकं तयोः । साधनस्य कृतकलादेयत्पक्षधमत्वमपक्षेसत्त्वविपक्षाघात्तिलक्षणविरूपत्वराहित्यं तदसत्प्रतिपक्षत्वं भवति। विदुषा स्वमाध्यसाधनाय स हेतुर्न वक्तव्यो य: परस्यापि वदतस्तथैव त्रिरूपो भूत्वा परपक्षसिद्धा कल्पात । यथा यहे दाध्ययनं तहेदाध्ययनपूर्वक वेदाध्ययनत्वादिदानीन्तनवेदाध्ययनवत् । एतादृशो हेतुः परपक्ष तिरूप: स्यात् । यथा यद्देदाध्ययनं तद् गुर्वध्ययनपूर्वकं वेदा. ध्ययनत्वादिदानीन्तनवेदाध्ययनवत् इति ॥ २८ ॥ अन्वयव्यतिरेकेणावान्तरभेदावाह।
स विविधः सपक्षवृत्तिभेदादिति ॥
Aho! Shrutgyanam