________________
सञ्चयः
स्फूर्म-ज्ञाननभोमणिप्रसृमरज्योतिःसमुज्जृम्भिते,
विद्वन्मानसवारिभूरुहवने लीलां वितन्त्रन्नलम् । प्रोद्यत्तालतमालकज्जलकलच्छायैककायद्युते ! ,
श्रीनेमे ! वरचञ्चरीकतुलनामालम्बसे त्वं विभो ! ॥१४॥ कालेऽस्मिन् कलिनामके सुरतरुः स्वर्गाङ्गणं सङ्गतः, . कामं कामगवी न वीक्षणपथेऽप्यायाति केषां क्वचित् । नष्टः कामघटोपि दृष्टिपदवीभ्रष्टश्च चिन्तामणि
स्तेषामेष पदेऽस्ति सम्प्रति भवानैव प्रभो ! भूतले ॥१५॥ एवं मन्दधिया मयाऽपि किमपि स्वामिन् स्तुतेर्गाचरं,
नीतोऽसि स्वमतिप्रकल्पितवचोन्यासैरसारैरपि । त्रैलोक्यैकगुरुं भवन्तमपरं याचे न किञ्चिद्वरं,
किन्त्यका भवदीयपादयुगलोपास्तिदैवाऽस्तु मे ॥१६॥ इतिगिरिगिरिनारोत्तुङ्गशृङ्गावतंसं,
जिनवरमिह नेमि यो जनोऽनन्यचेताः । निजहृदयनभक्तिप्रेरितः स्तौति नित्यं,
शिवसुखमचिरेणाप्यनुतेऽसावनन्तम् ॥१७॥ मालिनी इति श्रीसोमसुन्दरसूरिकृतः श्रीगिरिनारगिरिमण्डनश्रीनेमिजिनस्तवः!
अथ श्रीस्तम्भनपार्श्वनाथपञ्चविंशतिका (३) ( भुजङ्गप्रयातम् ) स्फुरत्केवलज्ञानचारुप्रकाशं, फणामण्डपाडम्बरोद्योतिताशम् । महाकर्मपङ्कौघनाशे दिनेशं, स्तुवे स्तम्भनाधीशपाच जिनेशम् ॥१॥ प्रभो ! सद्गुणश्रेणिलक्ष्मीनिवास, भवन्तं प्रदत्तान्तरारिप्रवासम् । जगद्वन्द्यपादाम्बुज कोऽस्तहासं, जनः स्तोतुभीष्टे लसद्देवदासम् ॥२॥ महानन्दलीलाविलासैकगेहं, तथापि प्रभो ! किञ्चन त्वां स्तुवेऽहम् । महाभक्ति रागेरितो नीलदेहं, जिनाऽज्ञोऽपि भव्यावलीपूरितेहम् ॥३॥
"Aho Shrut Gyanam"