________________
जैनस्तोत्र
नि थोऽपि सनाथतामहमगामद्य प्रभो! भाग्यतः,
- सम्प्राप्तेन जगत्त्रयाधिपतिना नाथेन नाथ ! त्वया निष्पुण्योपि शरण्यवसते ! पुण्यैकपूतात्मनां,
धुर्यवाहमभूवमत्र भवतस्ते पादप बेक्षणात् ॥७॥ भूयो जन्मजरामृतिप्रभृतिकक्लेशोर्मिमालाकुले,
भीमेऽस्मिन् भववारिधौ निरवधौ मज्जन्तमेतं जनम् । किंकर्त्तव्यतया विमूढहृदयं हीनं च दीनाशयं,
स्वामिन् ? स्वीयतरीसमाननयनप्रक्षेपतः प्रीणय ॥८॥ गाढागाधभवापगापयसि ही हीनात्मनामग्रणी;
श्रीनेमीश्वर ! पश्यतोपि भवतो मज्जामि मज्जाम्यहम् । तन्मां तारय तारयाशु करुणापण्याऽऽपगाभ! प्रभो!,
नोपेक्षा तव युन्यते यतिपते! विश्वयीतारक ! ॥२॥ यावद्देव ! तव श्रुतोक्तिसरसस्रोतस्विनीश्रोतसि,
क्रीडां क्वापि तनोत्ययं मम मनोमीनोऽतिहीनोद्यमः। रागद्वेषमदादिका बकगणा आदातुकामा इम,
धावन्ति त्वरितं तदैव परितोऽप्येते हहा! दुस्सहाः ॥१०॥ लब्धाप्यत्र भवे तवेश! सुकृतैराज्ञा विहीनात्मना,
स्वाधीनापि मया प्रमादवशतो नाराध्यते हाऽधुना । पश्चाईर्गतिदुर्गकूफ्कुहरावर्त्तप्रपाते प्रभो !,
तत्तदुःखपरम्परापरिगतः स्थाताऽस्मि दुःस्थः कथम् ॥११॥ माधन्मृत्युदवानले अनिजरादुःखौघदुःश्वापदे,
भ्रामं भ्राममनेकधा भववने निस्सीमभीमाजने । श्रान्तोऽत्यन्तमहं महामयमये तत्त्वं जिनेशात्मनः
__ कारुण्याम्बुनिधे ! विधेहि सविधे वासं स्वदासस्य मे ॥१२॥ नेमे ! ज्ञानपदं न वेद्मि किमपि प्रज्ञाप्रकर्षान्झितो,
ध्यातुं ध्यानमपि क्षमो नहि मनःस्थैर्याद्यभावादहम् ।
"Aho Shrut Gyanam"