________________
-सञ्चवः
श्री गिरिनारगिरिमण्डनश्री नेमिजिनस्तवः (२)
श्रीमदैवतका भिधाननगभूभूबैकभूषामणे !,
श्रीमन्नेमिविभो ! भवारिभवभीनिर्भेदमेदस्वल ! | भक्तिव्यक्तिवशोलसद्बहुलमुद्रोमाञ्चचञ्चद्वपुः,
स्वामिन्नज्ञतमोऽपि विज्ञपयति त्वां किञ्चनाऽयं जनः ॥ १ ॥
निस्सीमोत्तमचङ्गिमा गुणगणः क्वासौ तवासौख्यन्
निस्सारा वचसां भराः क्व च ममेमेऽस्वच्छतुच्छात्मनः । एवं सत्यपि भक्तितः प्रलपितान्येतानि वाक्यानि मे,
देवकर्णयितुं त्वमर्हसि यतो जातोऽसि सर्व सहः ॥ २ ॥ एतावन्तमनेहसं त्वयि विभो ! याऽभूदृछे पुरा,
त्वत्पादाब्जदिया परमयोत्कण्ठा गरिष्ठा मम । भूयो भूय इह त्वदीक्षण विधौ लावण्यवारांनिधे !
सम्प्रति प्रतिदिनं सा वर्द्धते सन्ततम् ॥३॥ गङ्गाऽगान्मरुमण्डले स्थलभुवि प्रादुर्बभूवाम्बुजं.
मध्ये क्षारपयोनिधेः समुदभूत कूपोऽमृताम्भोभृतः । त ध्वान्तौघमये निशीथसमये जज्ञे दिनेशोदयो,
यत्त्वं दृक्पथमागतोऽसि सहसा मेऽत्रापि काले कलौ ॥४॥ निःस्वः स्वर्णनिधिं यथाऽऽप्यं लभते स्वान्ते नितान्तं मुदं, तृष्णाक्रान्त इव प्रपामनुपमां घर्मातुरो वा तरुम् । शीतार्त्ती ज्वलितं हुताशनमिव स्थानं पथो वा च्युत
: स्तद्वत्त्वामुपलभ्य भाग्यवशतो जातोऽस्मि मोदास्पदम् ||५|| श्रीनेमे ! जगदेकनायक ! मुहुस्त्वां निर्निमेषेक्षणं,
पश्यन् श्यामतनुच्छविं जिनवर ! प्राज्यामृतश्रीपदम् । प्रावृट्कालघनाघनाभमनिभं सारङ्गवदङ्गभाग्,
नश्यत्तापतृषामरव्यतिकरः सद्यः प्रपद्ये रतिम् ॥६॥
"Aho Shrut Gyanam"