________________
सञ्चयः ।
d..
आस्तां भवान् मुवननाथ ! दृषन्मयीयं,
... त्वन्मूर्तिरप्यसुमतां तनुते प्रमोदम् । साक्षादवेक्षितवपूष्य पि सौख्यदानि,
न स्युर्नृणां मतिमतां परदैवतानि ॥१२॥ दूरेऽथवेन्दुरुदकप्रतिबिम्बतापि,
तन्मूर्तिरेव तनुते मुदमीश ! यद्वत् । तद्वद्विलोकित विभास्वरमण्डलाऽपि,
.. किं तारकावलिरलं प्रमदप्रदाने ? ॥१३॥ युन्मम् ॥ एकान्तशान्तरस्मसागरमलमूर्ते--
: र्या ते जगत्त्रयपतेऽद्भुतप्ताम्यमुद्रा। रोषादिदोषकलुषीकृतविग्रहाणां,
क्व स्यादसौ हरिहरप्रमुखामराणाम् ? ॥१४॥ विश्वत्रया तिशयिविस्मयकारिरूपं, ... देवं भवन्तमवलोकयतोऽपि न स्यात् । यस्याऽऽस्यमुल्लसितलोचनयुग्ममीश !, .
काष्ठं पशुः किमथवा दृषदेष साक्षात् ॥१५॥ यन्न प्रसीदसि विभोऽद्भुतभक्तिमाजि,
निन्दापरे च नरि नैव करोषि रोषम् । त्वां लक्षणेन खलु विश्वविलक्षणेना
- नेनैव दैवतधिया मुनयः प्रपन्ना: ॥१६॥ देवाऽन्यदैवतगणादगुणान् नृणां या,
..... सामान्यसत्त्वसदृशत्वभृतोऽमृतेच्छा । साऽत्यन्तनिर्धनजनादतिभूरिभूति
प्राप्तावतीव महती मनसः समीहा ॥१७॥ विश्वत्रयप्रकटदेवतचेष्टितं ये,
देवं मदादवपदन्ति भवन्तमेतम् ।
"Aho Shrut Gyanam"