________________
जैनस्तोत्र
कर्मक्षयैकफललाभमभीप्सतो मे,
नूनं जिनेश ! सफलो भविता श्रमोऽसौ ॥५॥ यत -नानाभवोपजनितं भविनामनन्तं,
वश्यं कयापि वितथाकुरुतेऽवसत्रम् । निर्णिक्तभक्तिभरजस्य महामहिम्नो,
देव ! स्तवस्य तु तवात्र विधौ कथा का ? ॥६॥ नो मत्सरः स्फुरति कोऽपि परामरेषु,
चेतोऽनुरागवशगं त्वयि देव ! नैव । सन्तस्तथापि निबिडाद् गुणपक्षपातात् ,
त्वामेव सेवकतया प्रभुमभ्युपेताः ॥७॥ स्वामिन्नसख्यसुखदं भवभीभिदं त्वा, - ... हित्वाऽऽरिरात्स्यति सुरानपरान् नरो यः । विश्वोत्तमामृतरसं सरसं व्यपास्या
सन्तोषमेष विषमं विषमापिपासेत् ॥८॥ रागोऽङ्गनाङ्गपरिषङ्गविधिप्रसिद्धः,
क्रोधोऽपि हेतिततिसङ्गतिबुद्धिबोध्यः । मोहोऽट्टहासनटनक्रिययाऽवसेयः ।
कामं कमण्डलुधृतिप्रथितं ह्यशौचम् ॥९॥ स्फाराक्षसूत्रकरधारणलिङ्गगम्य
मज्ञानमयखिलमातृमुखैरपीक्ष्यम् । मूर्तिष्वपीति भगवन् ! भवतः परेषां,,
हा हा ! महानिबिडदोषविडम्बनैव ॥१॥ युग्मम् ॥ दूरादपास्तवनितातनुसङ्गशस्त्राs
... द्यङ्काभिशयमदनादिकविक्रियायाम् । शान्ताकृतौ प्रतिकृतावपि ते यतीन्द्र !,
नीरागतैव जगताऽपि विभाव्यतेऽलम् ॥११॥
"Aho Shrut Gyanam"