________________
ॐ नमो जिनाय ॥ आगमोद्धारक-आचार्यमवरश्री आनन्दसागरसूरीश्वरेभ्यो नमः
जैनस्तोत्रसञ्चयः। आचार्यसत्तमश्रीसोमसुन्दरसूरिकृतं
श्रीअर्बुदस्थश्रीऋषभजिनस्तवनम् (१) श्रीअर्बुदाचलविभूषण ! दूषणाली
वन्ध्यार्जुनाभविभ ! नाभिमवाऽऽद्यदेव । स्वामिस्तव स्तवपथे पथिकीकरोमि,
वाचं शुचीकरणकारणतोऽहमहन् ॥१॥ कौतूहलान न न च काव्यकलावलेपान्।
नामुष्मिकैहिकफलाऽऽप्यभिलाषतो वा । किन्त्वीश ! ते स्तुतिविधावधियामधीशो
ऽप्यस्मिन् प्रवृत्तमतिरस्मि मवाभिभूत्यै ॥२॥ वेगादगं जिगमिषामि तदङ्गपङ्गु
र्गत्या जिगीर्गगनगप्रबलानिलस्य । मातुं मरुत्पथमथो विदधे तदिच्छां,
मित्स्यामि चान्तिमसमुद्रनल पलैस्तत् ॥३॥ स्प्रष्टुं करण तरणिं स्पृहयामि वाऽहं,
सर्विरामपि पदैर्यदिवा पिधित्स्न्ये । यस्सर्वथा मितिकथापथहृद्गुणस्य,
स्तुत्यां यतेऽहमिह ते सहसा किलवम् ॥४॥ युग्मम् शक्ति निजामनवधार्य तथापि कार्ये
ऽमुग्मिन्नुपक्रमवतो भवतः प्रसादात् ।
"Aho Shrut Gyanam"