________________
जैनस्तोत्र
ते सूरबिम्बममि रेणुभरं किरन्ति,
दन्तैरदन्ति गिरिसारभरं च दर्पात् ॥१८॥ त्वं देव ! मोहितजगत्त्रयमानसोऽपि,
मिथ्यादृशो ददसि नो मनसः प्रमोदम् । आप्यायिताखिलमहीतललोचनोऽपि,
कि कोकलोकमुस्खमुज्ज्वलयेत् ? कलावान् ॥१९॥ योऽनेकशोपि ददृशे न भवान् दृशेश !,
स्यादस्य देव ! परतीर्थकरेऽनुरागः । आजन्मतोऽप्यनवलोकितरत्नजाते
श्वेतोरतिर्भवति हि प्रति काचखण्डम् ॥२०॥ देवान्तरस्य भगव॑स्तव चान्तरं यो,
नो बुध्यते विबुध बोधकबुद्धिवन्ध्यः । निम्बाम्रकाचमणिसर्षपमन्दरादि
भावोत्करे किमु भिदां स विदांकरोतु ! ॥२१॥ देवाः परे परमडम्बरधारिणोपि,
नो लेशतोऽपि तिरयन्ति तव प्रभावम् । खद्योतका द्युतिततिं दधतोऽपि किं वै,
वैवस्वतं मुकुलयन्ति किल प्रतापम् ? ॥२२॥ नैकप्रकल्पित विकल्पशता अपि स्यु -
भॊषं जुषः सदप्ति ते जिन ! तेऽन्यतीर्थ्याः किं घोरघूत्कृतिपरा अपि नैव चूका,
___ मूका भवन्ति सवितुर्महसां समूहे ? ॥२३॥ ये त्वन्मतामृतरहस्यरसैकचित्ता,
नूनं मसिन रमतेऽन्यमतेषु तेषाम् ।। आस्वादितामृतरसस्य नरस्य किं स्यात् ,
पातुं स्पृहापि सलिलान्याप पङ्किलानि ? ॥२४॥
"Aho Shrut Gyanam"