________________
जिनस्तयः
मशक्तः गजेन्द्रगतितोऽप्यनन्तप्रकर्षशालित्वाद्भगवदतेः । चन्द्रस्तु मुखलीलां गन्तु न शक्तः, तस्मादप्यात्यन्तिकगुणोपेतत्वाद्भगवद्वदनस्य । पङ्कजादयः किं वि० ? 'सुकु०' तत्र सुकुमार -कोमलं, प्रकृत्या मृदुलं पङ्कजं । धोरो-निष्प्रकम्पः, शौण्डीययुक्तत्वाद्गजेन्द्रो धीरः। 'सौम्यो' नेत्रालादकारी, चन्द्रोऽपि स्वभावात् तापनिर्वापणप्रवणत्वात् सौम्यः । पुनः कि वि० ते ? ' रत्त० ' पङ्कजं हि कुमुदोत्पलादिविशेषनिर्देश विना कविसमये रक्तमेव वर्ण्यते । नागेन्द्रो' अहिः, प्रायः कृष्ण एव स्यात् । चन्द्रस्तु पाण्डुर एव । पुनस्त्रयः किंवि ? 'सिरिनि० ' 'श्रीः । लक्ष्मीदेवता, तस्या निकेता' निवासाः, लक्ष्मीहि पङ्कजे गजे चन्द्रे च वसतीति रूढिः, तथा च लक्ष्मीस्तवे-' गजे शङ्ख मधौ छत्रे, चन्द्रे पझे जिनालये । मौक्तिके विद्रुमे स्वर्णे, या नित्यं परमेश्वरी ॥१॥ पुनः किंवि० ते ? 'सीयंकु०' शीतं अडशो ग्रहश्च तेभ्यो 'भीरवः ' कातराः । पङ्कजं हि तुषारेण दह्यते इति शीतभीतः, गजेन्द्रस्त्वङ्कशतोदनाद्धीरुः, चन्द्रः ग्रहात् सामर्थ्यात् राहुतो भीरुः, पुनः किंविशिष्टाः ? ' जलथल०' जलं च स्थलं च नभश्च तानि मण्डयन्ति-अलङ्कुर्वन्तीत्येवंशीला जल० मण्डनाः, • तिन्नि ' त्रयस्त्रिसङ्ख्याः । पुनः किंवि० ? 'सुरहि० । पङ्कजं सुगन्धि, गजेन्द्रः मत्त उन्मदिष्णुः, चन्द्रस्तु प्रतिपूर्णः सम्पूर्णमण्डलस्तस्यैव हि मुखेनौपम्यं ग्रहभीरुत्वं युज्यते ।
"Aho Shrut Gyanam"