________________
श्री महावीर एवंप्रकारनैसर्गिकोपाधिकगुणविशिष्टा अपि न शक्ताः इति गाथाद्वयार्थः ॥ ___ अथ चतुर्थगाथया स्तुतिं निगमयन् प्रणिधानमाहएवं वीरजिणिदो अच्छरगणसंघसंथुओ भयवं । पालित्तयमयमहिओ दिसउ खयं सम्बदुरियाणं ॥४॥ इति श्रीपादलिप्तसूरिविरचितः स्वर्णसिद्धिगर्भः
श्रीमहावीरजिनस्तवः। ' एवं०' पूर्वोक्तप्रकारेण, जिना:-रागादिजेतृत्वात् सामान्यकेवलिनस्तेषु इन्द्रः ३४ अतिशयसमृद्धयनुभवनाजिनेन्द्रः, वीरश्चासौ जिनेन्द्रश्च वीर० । 'अप्सरसो ' देवाङ्गना गणयन्तिभोगार्हत्वात् बहुमन्यन्ते. अप्सरोगणाः-देवास्ते च सङ्घश्च-चतुर्वर्णः श्रमणसङ्घस्ताभ्यां संस्तुतः, स्तवकर्त्तरपि सङ्घातगतत्वात मया च संस्तुत इति गम्यते । भगवान् — ऐश्वर्यस्य सम० ' पविधभगयुक्तः । पालि०' पालयन्ति-रक्षन्तीति पालिन:पालकास्तेषां त्रयं पालित्रयं, तत उर्वलोकपाला इन्द्रास्तिर्यग्लोकपाला नरेन्द्रव्यन्तरेन्द्रज्योतिष्केन्द्रा अधोलोक० भवनपतीन्द्रा इत्यनेन पालित्रयेण कर्बभेदेन करणभूतेन मदेन'हर्षेऽप्यामोदवन्मदः' इत्यमरकोशवचनात् हर्षेण कृत्वा महितःपूजितः, सर्वदूरितानां-दारियरोगजरादीनां, क्षयं दिशतु, इति ॥४॥ अथाऽऽद्यगाथार्थमाह-गाथायुगलेन-मात्राछन्दोविशेषरूपद्वयेन, 'जिन' रागादिजेतारं, 'मयमोह. '
"Aho Shrut Gyanam"