________________
अष्टादश
ग्रामाय गच्छतीत्यादि । द्वादशानां योजनानां समाहारे, तस्याः ॥ ५ ॥
पुरः स्थितास्मत्पर्षयो, वर्षति त्वयि गीः सुधाम् । सबाह्याभ्यन्तरस्तापो, दवीयान् जायते प्रभो ! ॥ ६ ॥
अब०-पूरः स्थिता वयं देवा यासां ताभ्यः ' आरादर्थैः |२२|७८ इति पञ्चमी । सह बाह्येन वर्त्तते यः स चासावस्यन्तरश्च । अतिशयेन दूरो दवीयान् ' गुणाङ्ग० ' ७३९ इति ईसि 'स्थूलदूर ० ' | ७|४|४२ | इति अन्तस्थालोपे गुणे च ॥६॥ चतुर्णामाननानां ते, मोहितास्माकमीक्षणे । तृप्तिर्न जायते देव ! लावण्यामृतवारिधे ! ||७|| अव० - मोहिता वयं यैस्तेषां ईक्षणे दर्शने ।। ७ ॥ प्रातिहार्येषु निर्माण - सुहितास्मासु ते प्रभो ! | स्पष्टं दृष्टेषु सद्दृष्टिः, को न चित्रीयतेतराम् ! | न अव० - निर्माणेन सुहिताः - प्रीता वयं येषां तेषु । सतीसम्यग्दृष्टिर्यस्य सः ॥ ८ ॥
0
अस्मत्पदबहुव्रीहि - बहुत्वरचनाश्चितः । इत्यमर्त्यकृतो वीरस्तवः स्ताद वास्तवश्रिये ॥ ९॥ इत्यस्मद्बहुव्रीहिबहुवचनमयः सुरासुरविज्ञप्तिरूपः स्तत्रो
"Aho Shrut Gyanam"