________________
स्तोत्री
प्रसरन्ति जगत्पीठे, स्तवनुन्नवयं तव ॥२॥
अब-बद्धा० विबुधः पण्डिते सुरे' ( हैम० अनेकार्थसङ्ग्रहः) इतिवचनात् वि० विद्वद्भिः। स्तवे नुन्नाः-प्रेरिता वयं यस्ते। बद्धाः कथं प्रसरन्तीत्यापतिते विरोधाद्विरोधालङ्कारः।२। स्मृतमात्रा अपि नन्ति, विघ्नं सङ्घजनस्य ये । नामवर्णा न के जाप-रतास्मांस्तान स्तुवन्ति ते ? ३ ___ अव०-तान् ते नामवर्णान् के न स्तुवन्ति ? इत्युत्तरार्द्धऽन्वयः! जापे रता वयं देवा येषां नामवर्णानां, तान् ॥ ३॥ पद्मसञ्चारसंरब्धा-स्माभिर्मोहतमोहरैः। रविणेव त्वया पादैः, को देशोऽद्योति न प्रभो ! ४॥
अव०-पनानां यः सञ्चारः-पदयोरधोन्यासस्तत्र संरब्धा वयं येषां तेः, पादैरिति 'गुरावेकश्चेति पूज्यत्वात् बहुवचनम् । पक्षे पादैः-किरणैः ॥ ४॥ निर्मितिमुदितास्मभ्यं तव समवसृतौ प्रदीपवप्रेभ्यः। द्वादशयोजन्या अपि धन्याः के के न गच्छन्ति ? ॥५॥ ____ अव-निर्मितिनिर्माणं तया मुदिता-हृष्टा वयं येषां तेभ्यः, 'गतेनैवाना' रारा६३॥ इति चतुर्थी । यथा
"Aho Shrut Gyanam"