________________
स्तोत्री
नवमः । एवं च समाप्ताऽस्मच्छन्द त्रिषष्टिरूपचार्वी नवस्तवी. अव० - इत्यमर्च्यशब्दः सामान्येन देवाभिधायकः, तेन अमशब्देन सुराणामसुराणां च ग्रहणान्न प्रक्रमभङ्गप्रसङ्गः । वास्तवश्रिये - शिवसम्पदे ॥ ९ ॥
इति नवमस्तवावचूरिः परिपूर्णा ||
श्रीदेवसुन्दर गुरुत्तमशिष्यमुख्यश्रीज्ञानसागरगुरुक्रमपद्मरेणोः । श्रीसोमसुन्दरगुरोरिति युष्मदस्मदष्टादशस्तवकृति: कृतिनां मुदेऽस्तु || १ || एतामष्टादशस्तोत्री - मुद्युक्तो गुरुभक्तितः । अशोधयच्छुद्धबुद्धिः, सोमदेवगणर्गुणी ||२||
इतिश्रीतपागच्छाधिराजपरमगुरुभट्टारकपुरन्दरश्री सोमसुन्दरसूरिभिः क्षुल्लादिबुद्धिव्युत्पच्युपकारकौतुकितया कृता अष्टादशस्तवाः चिरं जीयासुः ।
इत्यष्टादशस्तोच्या मुनिनिधिमनुमिते १४९७ वर्षे परमगुरुश्री तपागच्छनायक भट्टारकपुरन्दरश्रीपूज्यश्री सोमसुन्दरसूरिराजकृतायास्तच्छिष्याणुसोमदेवगणिरचिता संक्षिप्तावचूर्णिः ||
"Aho Shrut Gyanam"