________________
स्तोत्री
प्रत्यक्षाश्रितदेवेभ्यः, परोक्षाश्रितमत्पुनः । युष्मद्भवेत्फलं तुभ्यं, सद्भावादुभयेष्वपि ॥६॥ ___ अव०-प्रत्यक्षमाश्रिता देवा यान् तेभ्यः, अत्रस्थत्वेन परोक्षमाश्रितोऽहं यान् तेभ्यः, 'गम्ययप' इति पञ्चमी, संचासौ भावश्च, तस्मात् । उभ० देवेषु मयि च ॥ ६ ॥ सुलभं कृतपुण्यानां, दुर्लभं पापिनां पुनः । युष्माकं सदगुणास्वाद-लुब्धमाकं सुदर्शनम् ॥७॥ __ अब०-सद्गुणाम्याद लुब्धोऽहं येषां ते, शोभनं दर्शनमम्तीति गम्यते ॥ ७॥ वागतिका-तसौभाग्य-युष्मद्रूपकथास्वहो । अशक्तमासु सुत्रामा-दिमा अपि हि न क्षमा: ।।
अव०-वागतिक्रान्तं सौभाग्यं यस्यैवंविधं युष्मद्रपं, तम्य कथासु-स्तुतिरूपासु, अशक्तोऽहं यासु तासु ॥ ८॥ अस्मत्पदैकवचनान्यपदबहुत्वेन संस्तुता एवम् । मम ददतु शाश्वतजिनाः शाश्वतपदसम्पदं सपदिर
इति अस्मच्छब्दैकवचनबहुव्रीहिबहुवचनगर्भः शाश्वत जिनस्तवः सप्तमः ।। इति सप्तमस्तवावचूरिः ॥ ७ ॥ अथ वीरस्तवः सूर्यन्दू सविमानौ वन्दनहेतोरितौ मुदा नुवतः ।
"Aho Shrut Gyanam" |