________________
अष्टादश
शाश्वतजिनेश्वरानिति नवीमि चतुरोग्यचतुरोपि।१। दरस्थितवयं यूयं, ध्यानेनाऽऽसन्नतां गताः। प्रसीदत ममायोग्य-स्याप्यचिन्त्यसुखार्पणात ॥२॥
अब०-अन्ये तु युक णुक व्यञ्जनादौ विति शिति ईतमपीच्छन्ति' इति क्रियारत्नसमुच्चयोक्तेर्नवीमीति साधुः । दुरस्थितोऽहं येषां युष्माकं, ते ॥ २ ॥ अत्रस्थ एव वन्देऽहं, साक्षाद्रष्टुमशक्तमान् । युष्मान्मानस एवेह, व्यापारो हि सतां मतः ।३।
अव०-अत्रस्थत्वेन साक्षाद् द्रष्टुमशक्तोऽहं येषां तान् , मनसोऽयं तस्येदम् ।६।३।१६० अण, मत इति प्राधान्येन ।३। सम्पादनानलम्भूष्णु-माभिः पुष्पादिकैर्जिना:। मर्त्यलोकासम्भविभिः, पूज्यचे सर्वदा सुरैः ।४। ___ अव०-सम्पादने अनलम्भूष्णुरक्षमोहं येषां मानां दिव्यरित्यर्थः ॥ ४ ॥ दर्शनपूजनवन्दनसेवादिमनोरथोच्छसितमभ्यम् । युष्मभ्यं भद्रं स्तात् सनाऽप्यनाद्यन्तरूपेभ्यः ॥५॥
अव-दर्शनादिमनोरथैरुच्छ्वसितोऽहं येषां तेभ्यः, अनाद्यन्तंशाश्वतं रूपं येषां तेभ्यः ।। ५ ।।
"Aho Shrut Gyanam"