________________
अष्टादश
श्रीज्ञानसागरस्याऽस्तु, स्तुतिरेषा सुखाय नः ॥९॥
इति अस्मच्छब्दबहुवचनबहुव्रीह्येकवचनप्रयोगमयः श्रीवीरस्तवः तृतीयः ॥ ३ ॥ इति तृतीयस्तवावचूरिः समाप्ता । अर्बुदगिरिवरभूषणमदुषणं प्रथमतीर्थकरनाथम् । स्तुतिपथमानेतास्मि प्रसृमरमहिमानमतिमानम् १ ___ अब०-प्रथमः तीर्थकगे नाथश्च राजा तीर्थकरनाथयोः, खञ्जकुण्टादिवत् समारः ।। १ ॥ कल्पद् इव ते पादौ, मनोऽभीष्टार्थदायकौ । मेव्यावुपान्तविश्रान्त-मां केषां नैव धीमताम्? ॥२॥ ___ अव०-उपान्ते विश्रान्तोऽहं ययोम्तौ, धीमतां कृत्यम्य वा' ।२।२१८८। इति षष्ठी ॥ २ ॥
आसादि यत्प्रसादाद्धर्मः शिवशर्मकृद भवदुपजम्। पितरौ तावभिवन्दे प्रसूतमां दुष्प्रतीकारौ। ३ । ___ अव०-' आङः सदा गतौ ' भवत उपज्ञा-प्रथमं ज्ञानं. भवता प्राक् प्रकाशित इति भावः । पितामात्रे' त्येकशेपः । प्रमूतोऽहं याभ्यां तो, दुःखेन प्रतीकारो नृणीभावो ययोस्तो,
अव्ययं ' ।३।११४८। इति बहुव्रीहिः, दुःखेन प्रतिक्रियेते इति वाक्ये - दुःस्वीषतः० ' ।५।३।१३९॥ इति खल स्यात् ।
"Aho Shrut Gyanam"