SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्तोत्री दधि कल्पते इत्यादिवत् , ' रुचिकृप्यर्थ ' ।२।२१५५। इति चतुर्थी, आज्ञापालनं हि भक्तिस्तच्च त्वत्तो दूरेपि न भिद्यते इति भावः ॥ ५॥ यदर्जितं भवेऽनादौ, कषायविषयादिभिः चिरं विधुरितास्मत्प्राक् तस्मात्त्रायस्व कर्मणः ।। अब :-विधुराः क्रियामहे णिजि 'तत्साप्या०३।३।२१॥ इति क्ते विधुरिता वयं येन, तस्मात् ॥ ६॥ पत्तीयितममसेवकजनदत्तात्मीयपदसदृशऋद्धेः । योगक्षेमविधायक ! तव नायकतामभीप्सामः ॥७॥ अव०-पत्तय इबाचरामः पत्तीयामहे, पत्तीयामहे स्म पत्तीयिता वयं यस्य तस्य सेवकजनस्य दत्ता आत्मीयपदसदृशी ऋद्धिर्येन. तस्य । अलब्धलाभो योगो, लब्धपरिपालनं क्षेमा, अभ्याप्तुमिच्छामः भवान्तरेऽपीति शेषः ।७।। प्रकटीकृतजगतीगतजीवाऽजीवादिभावसद्धावे । सुज्ञायकीकृतास्मयि तवागमे स्ताद्रतिनित्यम् ।। अब०-सु०-निगोदादिसूक्ष्मविचाराणां सुज्ञायकीकृता वयं येन, तस्मिन् ॥ ८॥ अस्मच्छब्दबहुत्वान्यपदैकत्वाङ्किताऽर्हतः । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy