________________
अष्टादश
मेवासक्ताहमहा ! धत्से नोत्सेकलेशमपि ॥ २ ॥ __ अव०-सेवासक्ता वयं यस्य । उत्सेक चित्तातिरेकः ।।२।। जननजरामरणोच्छलदतुच्छकल्लोलमालया कलितम् । निर्मग्नास्मां संसारसागरं तीर्णवान् भगवान् ॥३॥ ___अव०-निर्मग्ना वयं यस्मिन् विषयासक्ततया. सर्व जानाति देव इतिवत् प्रकरणात् भवान लभ्यते ॥ ३॥ पारप्राप्ताऽस्मया जज्ञे, मन्ये दुःखाधिनाऽधुना । लभामहे महेश ! त्वदर्शनं पावनं यतः॥४॥ ___ अव०-पारं प्राप्ता वयं यस्य तेन, मन्ये इत्यव्ययं, नो चेत अत्र स्तवे अम्मदो बहत्वप्रक्रमात् मन्यामहे इति स्यात् , न च बहुवचनार्थे एकवचनान्तप्रतिरूपकमव्ययमपि न प्रयोगाहमितिवाच्यं, 'सदृशं त्रिपु लिङ्गेषु, सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन् न व्येति तदव्यय मित्यव्ययलक्षणात् । उक्तं च व्यक्त्येदं ओपनियुक्तिवृत्ती-किमथि अन्नेवि अणुओगा' इत्यस्य व्याख्यायाम् ॥ ४॥ दूरेऽपि सदनुष्ठानं, कृतं जीवदयादिकम् । इदृक्श्रीप्राप्तमह्यं त्वद्भक्त्यायेव हि कल्पते । ५। ___ अव०-दूरे०-त्वत्त इत्यध्याहार्य । ईदृग् श्रियं प्राप्ता वयं यतस्तस्यै ' तुभ्यं मह्यं ।। ।२१४१४। इति मा. श्लेष्मणे
"Aho Shrut Gyanam"