________________
अष्टादश
१२।१।१९। इति अद्, ध्यानस्य अधीनो-वशः. असः स कृतस्त्वं यस्तेषां, व्या० 'आम आकम् । २।१।२०। इति शेषे लुक' ।२।१८। ॥ ४ ॥ नरेषु नायकत्वासु, न स्याद्भवरिपोर्भयम् । एवं युष्मत्पदैकत्वान्यबहुत्वोक्तितो मया ॥ ५॥
अव०-नायकस्त्वं येषां तेषु ॥५॥ श्रीमान् देव: शिवासूनु-रानीतःस्तुतिगोचरम् । ब्रह्मविद्यामयं दद्यात्, प्रसद्यात्मपदं मम ॥६॥
इति युष्मच्छब्दैकवचनान्यपदबहुत्वगर्भः श्रीनेमिस्तवः ।
अव०---ब्रह्मविद्या-केवलज्ञानं सा प्रकृता यस्य, 'प्रकृते मयट्' । दद्यादिति, विधिनिमन्त्रणाधीष्टसम्प्रश्न० ५।४।२८ इति अध्येषणे सप्तमी, दद्यादमन्दमानन्दमितिवत् ॥ ६॥ इति सप्तमस्तवावचूरिः ॥७॥
अथ श्रीसीमन्धरयुगन्धरस्तवः । भवपङ्कपतजन्तु-जातोद्धारधुरन्धरौ । स्तुवे जिनौ विदेहस्थौ, सीमन्धरयुगन्धरौ ॥१॥ स्वामिताङ्कितयूयं याः, प्रजास्ता भाग्यभाजनम् । भावेनोपासितयुवान्, स्तुवे सेवकपुङ्गवान् ॥२॥
समस्तवाससमी, देवानमन्त्रणा कृता यस्य
"Aho Shrut Gyanam"