________________
स्तोत्री
૨૨
,
प्रथमं शिविकारूढव्यूढयुवाभिर्नृभिस्तपस्यायाम् | इन्द्रेभ्योऽप्यखिलेभ्यः प्राधान्यं प्राप्यते स्म खलु ॥३॥ अव :- स्वामितयाङ्कितौ-चिह्नितौ युवां यासां ता परत्वाद् युवादेशं बाधित्वा यूयमादेशः । उपासितौ युवां यैस्तान् 'शसो नः' | २|१|१| 'युष्मदस्मदो:' | २|१|६| इत्याः | बहुव्रीहिबहुत्वेपि युष्मच्छब्दस्य द्वित्वेपि वृत्तेः ' मन्तस्य ० | २|१|१०| इति युवादेशः । एवमग्रेतनेष्वपि प्रयोगेषु ॥ २ ॥ प्रथ० - शिविका - याप्ययानं तत्रारूढौ व्यूहौ युवां यैस्तैः । न च व्यूढेत्यत्र विपूवों वहतिर्विवाहार्थ एव, 'बूढो गणहरसदो' तथा ' मुणिवृढो सीलभरो ' इत्यादिषु व्यूढशब्दस्य वहनार्थस्यापि प्रयोगाणां दर्शनात् । इन्द्रा अपि हि ' मनुष्योद्भवाः जिना' इति मनुष्याणामेव प्रथमं याप्ययानवहनानुमति ददति ॥ ३ ॥ याचकेभ्योऽपि भद्रं स्ताद, वार्षिकत्यागपर्वणि । स्वहस्तदायकी भूत - युवभ्यं वाञ्छितावधि ॥ ४ ॥ अव--- याच०-' तद्भद्वायुष्य ० ||श६६। इति चतुर्थी । याचकानामाशीदर्शन हेतुरूपं विशेषणमाह-स्वहस्तेन दायकीभूतौ युवां येषां तेभ्यः । वाञ्छितमवधिर्यस्मिन् स्वहस्ताने तत् । गङ्गायां बहुमानातिशयात्तन्मृत्तिकापि यथा बहुमान्या तथा स्वहस्तदायकीभूतयूयं याचका अपीतिभावः ॥४॥
,
"Aho Shrut Gyanam"