________________
३०
अष्टादश
द्रव्यपर्यायनययो:, प्रमाणीकृतयुष्मयोः । स्थितो भूपसभे वादी, जल्पन्नाप्नोति वैजयम् ॥७॥ ____ अव०-अप्रमाणं प्रमाणं क्रियध्वे स्म इति प्रमाणीकृताः, प्रमाणीकृता यूयं याभ्यां तयोः । द्रव्यपर्यायनयौ हि यथा युष्मदुपदिष्टं सर्वार्थेष्वविसंवादितया प्रवर्त्तमानौ युष्माकं प्रामाण्यं व्यवस्थापयतः । वक्तुः प्रामाण्य एव वचनप्रामाण्यनियमात्। भूपसभं राजवर्जिते' (लिङ्गानु०)ति क्लीवत्वं वै निश्चये। युष्मदुपज्ञद्रव्यपर्यायनयवादिनो जयस्यैकान्तिकत्वात् ॥ ७ ॥ युष्मच्छब्दबहुत्वाऽन्यपदद्वित्वोक्तिभिः स्तुताः एवं। श्रीज्ञानसागरत्वं देयासुः सर्वसार्वा मे ॥८॥
इतियुष्मच्छद्रबहुवचनबहुव्रीहिद्विवचनप्रयोगमयः साधा रणजिनस्तवः एष वा षष्ठः । इति द्वितीयषष्ठस्तवावचूरिः ॥६॥
अथ श्रीनेमिस्तवः रैवताचलश्रृङ्गारं, भृङ्गारं ज्ञानवारिणः । श्यामलच्छायमिच्छामि, श्रीनेमि स्तोतुमादरात् ॥१॥ शिष्यीभूयानुयूयं ये, भव्यास्ते नात्र संशयः । सम्यग्दृक्त्वादभित्वांश्च, भजन्ति त्रिदशा विशः।२।
अव०-वामनुगताः. अनुलोमादिष्विव 'प्रात्यवपरि०' ३३११४७। इति द्वितीयातत्पुरुषः पूर्वपदप्रधानः । अत्र युष्मद
"Aho Shrut Gyanam"