________________
स्तोत्री
अव०-देशकीभूता अत्र चिः क्तश्च ] यूयं ययोस्ताभ्यां, करणे तृतीया ॥३॥ अच्युतसुखान्तसत्फलदात्रीभ्यां द्रव्यभावपूजाभ्याम् विषयीकृतयुष्माभ्यां प्रयतेत श्रावको न हि कः ?।४। ___ अव०-द्रव्यपूजापक्षे अच्युतसुख-द्वादशदेवलोकसुखं, भावपूजापक्षे अच्युतसुखमक्षयमुक्तिसम्बन्धि यत्सुखं, तदन्तानां सत्फलानां दायिकाभ्यां, द्रव्यभावप्रधाने पूजे, मयूरव्यंसकादित्यात्समासः । ताभ्यां. अविषया विषया क्रियध्वे स्मेति विषयीकृता, विषयीकृता य॒यं याभ्यां ताभ्यां, · गम्यस्याप्ये' १२।१६२। इति चतुर्थी, ते कत्तुं को न प्रयतेत ? इत्यर्थः ॥४॥ व्याख्यानोद्युक्तयुष्माभ्यां, धर्माभ्यां भव्यजन्तवः । तीर्णास्तरन्ति मोहाब्धि, तरिष्यन्ति तथा न के ? ॥५॥
अव०-व्याख्याने उद्युक्ता यूयं ययोस्ताभ्यां, साधुश्राद्धभेदन द्वौ धर्मों · गम्ययपः० ' ।२।२१७४। इति पञ्चमी । तावाश्रित्येत्यर्थः ॥ ५ ॥ साधयेन्निर्मलं धर्म, निश्चयव्यवहारयोः । मर्यादामनतिक्रामन् , दर्शकीभूतयुष्मयोः॥६॥
अव०-दर्शकीभूता यूयं ययोस्तयोः, अनतिक्रामन् इति विशेषणवलाञ्जन इति विशेष्यं लभ्यते ॥ ६ ॥
"Aho Shrut Gyanam"