________________
अष्टादश
त्रयाणामन्योऽन्यं हेतुहेतुमद्भावः । अन्तं अतीतम्तं, 'श्रितादिभिः' ३।११६२॥ इति तत्पुरुषः । इति षष्ठस्तवावचुरिः ॥६॥
पुनः प्रकारान्तरेण षष्ठ एव स्तव उपदश्यते सर्वान् सार्वान् रागरोषादिदोषै
स्त्यक्तान युक्तान् मुक्तसङ्ख्यातिशेषैः । हर्षादीडे ब्रीडया पीडितोऽपि,
। भूतनाथान् ॥१॥ अव०- सर्वान् -मुक्ता सङ्ख्या यैस्तैः. अतिशेषशब्दः 'इय अइसेसज्झयणा भूआवाओअ'नो स्थीणं' इत्यादिसमयपरिभापया अतिशयार्थः, तैर्युक्तान् . अर्हतां प्रसिद्धानां चतुत्रिंशतोऽतिशयानामुपलक्षणमात्रत्वान्न मुक्तसङ्ख्यत्वव्याघातः ।।१} अभिविजितयुष्मां कं, मोदयेतां न चामरे । सदासेवितयुष्मां च, देवदेव्यौ स्मराम्यहम् ॥२॥ ___ अव०-'वीजण अपठितश्चौरादिकः। अभि-समन्ताद्विजिता यूयं याभ्यां ते, देवश्च देवी च । अत्र धवयोगलक्षणार्थविशेषसद्भावात् पुरुषःस्त्रिया' ।३।१।१२६। इति न एकशेपस्तत्र हि तन्मात्रभेद एव गृहीतोऽस्ति ।। २ ।। ज्ञानक्रियाभ्यां भव्यानां, मोक्षसौख्याभिलाषिणाम् । देशकीभूतयुष्माभ्यां, संसारः सुतरो भवेत् ॥३॥
"Aho Shrut Gyanam"