________________
स्तोत्री
याभ्यां ताभ्या. आराधिता यूयं याभ्यां ताभ्यां क्रियाभिप्रेयत्वात् सम्प्रदाने चतुर्थी ॥३॥ पथिषु स्मृतयुष्माभ्यां पलायते निखिलभीतिरतिदूरम्। पित्रोः सुत्रामापि प्रणमति स्तुतयुष्मयोः पादौ ।४।
___ अव०-स्मर्यध्वे स्मेति स्मृताः, स्मृता यूयं याभ्यां ताभ्यां, 'पञ्चम्यपादाने' २१२२६९। इति पञ्चमी । पिता च माता च 'पिता मात्रा वे' त्येकशेषे पितरी तयोः, स्तुता यूयं ययोस्तयोः ।।। युष्मास्तिव मम भक्तिः,
स्वात्मैकत्वाप्तयुष्मयोभूयात् । युष्महुवचनान्यद्वित्वोक्त्यैवं जिना नूताः ॥५॥
अब०-युष्मा०-आत्मना सह एकत्वं प्राप्ता यूयं ययोस्तयोः युष्मादृशीभूतयोरिति भावः, स्त्रीनरयोविषययोः ॥ ५ ॥ इत्थं स्तुत्वा सर्वतीर्थाधिनाथान्,
__ भव्यप्राणिप्रार्थितार्थामरढून् । दुःखोच्छेदं कर्ममर्मक्षयं सा
गन्तातीतं बोधिलाभं च याचे ॥६॥ इतियुष्मच्छन्दबहुवचनबहुव्रीहिद्विवचनगर्भः साधारणजिनम्तवःषष्ठः ।। ___अब०-बोधिलाभेन कर्ममर्मक्षयस्ततश्च दुःखोच्छेद इति
अ.-२
"Aho Shrut Gyanam"