________________
अष्टादश
जिनॉस्त्रिलोकीजनितांहिपूजान् ,
भूजानिवंशप्रभवान्नुवामि ॥ १ ॥ अव०-कल्पश्चासौ द्रुश्च कल्पद्रुः, चिन्तायाः पूरको मणिः चिन्तामणिः. कामस्य पूरिका धेनुरुभयत्र मयूरव्यंसकादित्वात् समासः । भूर्जाया येषां ते भूजानयः 'जायाया जानिः । ७।३।१६४। इति जान्यादेशः । णु०णुधातुः ।। १ ॥ स्थितनामद्रव्याद्यात्मकयुष्मां रोदसी बुधश्लाध्ये । तुष्यन्ति गीतयुष्मां न के नराः किंनरौ श्रुत्वा ?
॥२॥ अव०-स्थिता नामद्रव्ये आदिशब्दात् स्थापनाभावी ते आत्मा-स्वरूपं येषां ते नामद्रव्याद्यात्मका यूयं ययोस्तौ, रोदसीद्यावाभूम्यौ, किनरश्च किंनरी च 'पुरुषस्त्रिये'त्येकशेषः ॥ २ ॥ आशातितयुष्माभ्यां स्त्रीनृभ्यां ।
___ लभ्यते न किं दुःखम् ? । आराधितयुष्माभ्यामभ्यायान्ति
स्वयंवराः कमलाः ॥ ३ ॥ गीतिः ॥ अव०-आशा० 'शदे: शिति' ३३१४१॥ इत्यात्मनेपदे आशीयध्वे यूयं ते आशीयमानाः । स्त्रीनृभ्यां प्रयुज्यध्वे णिगि; 'शदेरगतौ शात्' इति शातिकमणि क्ते च आशातिता यूयं
"Aho Shrut Gyanam'