________________
स्तोत्री
____ अव०-उरीकृतौ-स्वामितया अङ्गीकृतौ युवां याभ्यां ताभ्यां, 'आरादर्थैः' २।२।७८ इतिपञ्चमी । असुप्रभू सुप्रभू भवथः स्म, च्वौ 'गत्यर्थाकर्मक०' ५।१।११। इति कर्तरि क्ते सुप्रभू भूतौ युवा ययोस्तयोः ॥ ४ ॥ मनसि न्यस्तयुवयो-र्लसन्त्यखिलसम्पदः। विभक्तिसप्तकेनैवं, स्तुतो श्रीजिननायकौ ॥५॥
चतुर्भिः स्वीनरावृत्या सम्बद्धैःकलापकम् । अव:-न्यस्तौ युवां याभ्यां तयोः । पाठान्तरे आधेययुवयो: 'सर्वे दधत्याधेयतां गुणा' इति रूपे आधेयौ युवां ययोस्तयोः स्त्रीनरयोः, सर्वगुणा आधेयता दधति, तं स्वाधिकरणं कुर्वन्तीतिभावः ।। ५ ।। युष्मत्पदान्यपदगद्विवचनगर्भोक्तियुक्तिरम्येण । स्तवनेन संस्तुतौ स्तां पार्श्वसुपाश्वौ प्रसन्नौ मे ॥६॥ इतियुष्मच्छब्दबहुव्रीहिद्विवचनगर्भः श्रीपार्श्वसुपार्श्वस्तवः ।।
अव-स्ताम्-असक् भुवि, पञ्चमी तां 'नास्न्योलक' ४१२१९०। इति अलुक् । इति पञ्चमस्तवावचूरिः ।।
अथ साधारणजिनस्तवः । कल्पद्रुचिन्तामणिकामधेनु
मुख्यार्थसार्थाधिकयत्प्रणामान् ।
"Aho Shrut Gyanam"