________________
अष्टादश
____ इति तुर्यस्तवावचूरिः ॥ ४ ॥ अथ पार्श्वसुपार्श्वस्तव :पार्श्वसुपााभिख्यौ फणमणिघृणिगणविभा
सिताकाशौ। स्तोष्ये ऋभुक्षिमुख्यस्तुतपदपद्मौ जिनौ
भक्त्या ॥ १ ॥ अव०-आनुपूर्व्यापेक्षया सुपार्श्वस्य प्राग्निपाते युक्तेपि अल्पस्वरत्वात् पार्श्वशद्धस्य प्राग्निपातः। ऋभुक्षिः मुख्यो येषां ते ऋभुक्षिमुख्या. देवा इति विशेष्यमनुक्तमपि प्रकरणाद् लभ्यते. 'संशय्य कर्णादिषु तिष्ठते यः' इत्यादिष्विव ॥ १ ॥ स्यातां प्रमोदपुष्टया दृष्टयुवां स्त्रीनरौ विमलदृष्टी। मधुरस्वरगीतयुवां वाग्माधुर्यं सदाऽभ्येति ॥२॥ ___ अव - दृष्टौ युवां याभ्यां तौ, द्वितीयाद्विवचनम् ॥ २ ॥ उपासितयुवाभ्यां च, लभ्यते भुवनेशता । भक्त्या प्रणतयुवाभ्यां, वासवोपि नमस्यति।३।
अब ०-उपासितौ युवां याभ्यां ताभ्यां । प्रणतौ युवां याभ्यां, कर्माभिप्रेयत्वात् सम्प्रदाने चतुर्थी ॥३॥ ऊरीकृतयुवाभ्यां नो, दूरे लोकाग्रगं पदम् । सुप्रभूभूतयुवयो- सायन्ते सुरद्रवः ॥ ४ ।।
"Aho Shrut Gyanam"