________________
त्रिदश-तरङ्गिणी
४७ वशिता-वशीकृता, वशिनां-लौकिकवशिष्ठविश्वामित्रादि. लोकोत्तरकूलवालकमुनीनां ततिः येन । शूरकोटीरम् । दुर्जयमदनम् । हरिहरादिजयनशीलम् । एवं मदनस्य वीरत्व-महर्षिमहादेवजयशक्त्या विषमत्वोक्तिः, ईदृशस्यापि मदनस्य जयोक्त्या जिनातिशयोक्तिश्च । शूरो नयविनयोनं न भक्तितोऽथितं दत्ते इति नयविनयविधिज्ञा: । रात्रिः । श्रेयसे-मुक्तये ॥२०॥ जनकजनक ! चेतः स्वाहियुग्मे शिवश्री
शरण ! शरण ! विश्वप्राणभाजां लयं मे । जलजजलजयोद्यत्शैत्यपावित्र्यपात्रे, ___ नय सुनयसुखाब्धिः स्यां सदा श्रीनमे ! यन् ॥२१॥
हे श्रीनमे ! मम चेतः स्वांहियुग्मे लयं-ध्यानस्थैर्य नयप्रापयेति योगः। हे जनकजनक ! कस्य-सुखस्य दुभिक्षमारीतिरोगाद्यपहारेण समाधानस्वरूपस्य धनराज्यादेर्वैहिकस्य, स्वर्गापवर्गादेः पारत्रिकस्य च निष्पादक ! 'धर्मोपदेशका गुरवो मता' इत्यादिप्रयोगदर्शनात् 'कर्मजा तृचा च' [सि० ३।१।८३] इति कर्मषष्ठीसमासनिषेधेऽपि जन्यजनकविवक्षयाऽऽकृतिगणत्वेन याजकादिपाठगणनाद्वा समासः । गृह । इष्ट सुखपालनकर। नीर-नीरजयोर्जयेनोद्यती-उदयती ये शैत्य-पावित्र्ये-भवातितापपापकर्ममलाशौचापहारिणी तयोर्भाजने । सुनयः-सुप्रापः, सुखाब्धिलक्षणया मोक्षो यस्मात् ॥२१॥ नुततनततभासा स्निग्धया राजमत्या,
विपुलविपुलयेभभ्रातरत्नादिभिश्च । रुचितरुचितनूको मोहितो नैव योऽर्हन,
भविकभविकदः श्रीने मिनेता स जीयात् ।।२२।।
"Aho Shrut Gyanam