________________
४६
त्रिदश-तरङ्गिणी
नमत न मतसौल्यैश्चै द्विरामेऽस्ति वाञ्छा,
विभवविभवमेष ह्यानतो रात्यनन्तम् ॥१८॥ कृतः सुकृतेषु अर्थात्तदर्जनाय यत्नो यैः । बुधा एव सुकृतयत्नकृतः, सुकृतं जिननमनमूलमित्युपदेशाश्चेिति बुधग्रहणम् । सप्तभयरहितम् । इष्टसुखैः सह विराम-वियोगे नास्ति यदि वाञ्छाशाश्वतसुखे वाञ्छाऽस्ति यदीत्यर्थः । विगतो भव:-उत्पत्तिरुपलक्षणाज्जरामृती च यस्मिन्स विभवः-शिवं, तस्य तद्रूपं वा विभवं. सुखज्ञानादिसमृद्धिम् । एष-श्रीअरः । हि-यस्मात् राङ्क, दाने । कु नतकुमतदूरीभावदोक्तिस्त्रिलोको
__कमलकमलबन्धुः सिन्धुरुधन्महिम्नाम् । जयसुजयसुतत्त्वावाप्तिहन्मोहशत्रो !
विध विविधविशेषज्ञाय॑ ! मल्ले ! शिवं मे ॥१९॥
को:-पृथिव्या अर्थात् पृथिवीस्थजनतायाः प्रायः 'मिच्छत्त. निसेवए जणे' इत्यादिवचनात् प्रायः कुमतप्रियत्वान्मतानीष्टानि यानि कुशासनानि कुवादिन इत्यर्थः । तेषां दूरीभावदा-अवितथप्ररूपणया वितथप्ररूपकाणां त्रासभवनाद्वित्रासिका उक्तय-आगमा यस्य । सूर्यः । सुष्ठु तत्त्वानामवाप्ति हरतीति सुतत्त्वावाप्तिहृच्चासौ मोहशत्रुश्च सुखेन जीयते इति सुजयः सुतत्त्वावाप्तिहृन्मोहशत्रुर्यस्मात्तस्यामन्त्रणम् । तथा 'विधत् विधाने' इति प्रकृतेः पञ्चम्या . हौ विध कुर्वित्यर्थः । विविधा गतिचतुष्कागतभेदादासन्नासन्नतरासन्नतम शिवगमनादिभेदाद्वा ।।१९॥ . वशितवशितति यो वोरहीरं विजिग्ये,
विषमविषमबाणं शौरिशर्वादिजैत्रम् । नयविनयविधिज्ञाः सुव्रते श्रीजिनेऽस्मिन्,
भवत भव-तमार्के श्रेयसे भक्तिभाजः ॥२०॥
"Aho Shrut Gyanam"