________________
त्रिदश- तरङ्गिणी
भवति भवसितांशौ सेंहिकेयः प्रभावात्,
स भविसभवितीर्णाऽऽनन्दलक्ष्मीः स्यात् ॥१६॥
विश्वाङ्गिवर्ग हे सदय ! सद्भाग्ययोगात् हे महिममहिमहिम्नां मही- पृथ्वी उत्पत्तिस्थितिवृद्धिविलासादिस्थानमिति भावः । उत्सवानां श्रेणीनां (श्रीणां ) च बाहुल्यकरणाद् वर्षमिव वर्षम् । (भवसितांशी ) संसारचन्द्रे तद्ग्रासादयदीप्त्यादिहननात् सैंहिकेयोराहुः । प्रभावात् स्वमहिम्ना रोगदुर्भिक्षाऽन्यायदारिद्यादिदुःखहरणाद्भविनां सभायाः 'शालां विना सभे'ति । [ लिंगानु० ] नपुंसकत्वे भविसभस्य वितीर्णाऽऽनन्दलक्ष्मीर्येन स तथा ॥ १६ ॥ कमनकमनहेतुर्भक्तितो यस्य कुन्थोः,
सकलसकलमुत्यं ब्रह्मशर्माऽश्नुतेऽङगी ।
भर सुभर सुखौघस्याऽस्य तां नेतुरात्मन् !
४५
वसति वसति हृष्टा यत्त्वयीशे शिवश्रीः || १७ ||
कमनस्य -- कामस्य, कमनं-कान्तिः सर्वत्रास्खलितविलासादिरूपा सदुपदेशादिभिस्तद्धरणशीलस्य । सकलैः सर्वैः सकलैःसम्यग् ज्ञानादिकलावद्भिर्नुत्यं - स्तुत्यम् अभिलषणीयमिति भावः । मुक्ति । अस्य कुन्थोः स्वामिनः तां भक्ति भर-पुषाणेति योगः । सुभरा - अनायास पोषाः सुसाधा इतिभावः । सुखौघा नृसुरशिवसम्बन्धिनो यस्माद् । हे आत्मन् ! त्वयि आधारभूते ईशेसम्यगृज्ञानधान्यादिभिः स्वपररक्षणक्षमे शिवश्रीर्वासयोग्यात्मनां स्वल्पत्वाद्दं लभलाभे च हर्ष भवनात्सदालयप्राप्तिः हृष्टेव वसतीति योगः ।।१७।।
कृतसुकृतसुयत्ना हे बुधाः !
शुद्धभावादरमदरमधीशं श्री जिनानां सदापि ।
"Aho Shrut Gyanam"