________________
४८
त्रिदश-तरङ्गिणी नुता-सर्वोत्तमत्वेन नेमिवधूत्वयोग्यतया वासुदेवादिभिः स्तुता प्रशंसिता, तनोर्वपुषस्तता-विस्तृता भा-दीप्तिः सुभगिमलक्षणा वा यस्याः । स्नेहलया० । विपुला-विशाला, या पृथिवी तया तद्राज्येनेत्यर्थः । इभैरश्वादीनां, हरि-बलादिभ्रातृणां प्राधान्येन निर्देशाज्जनकादीनां,रत्नैर्मणिमुक्तादीनामादिशब्दयुक्तैरुपलक्षणम् । रुचिता-सुभगिमातिरेकाद् जगदभीष्टा, रुचयो यस्यास्तादृशी तनूयस्य । एतेन नेमिराजीमत्योरनुरूपता ख्यायते । तेन च मोहनीययोग्यतायामपि मोहाभवनेन परमयोगित्वं च श्रीनेमे: । भवोऽस्त्येषामिति भविका अतोऽनेकस्वरादि' [सि० ७।२।६] तीके भविकाभविनस्तेषां भविकं-कल्याणं ददातीति डः ॥२२।। रुचिररुचिरनन्तानन्दवायिन् ! शिवश्री
वर ! तव रत ! विश्वाऽभीष्टदाने प्रणौमि । सुहितसुहितचेताः श्रेयसे पार्श्व ! सू:
धरणधरणभोगिस्वामिसेव्यं क्रमाब्जम् ॥२३॥
हे श्रीपार्श्व ! तव चरणकमलं प्रणौम्यहमिति शेषः । रुचिरा-जिनोक्ततत्त्वानुगत्वेन श्रेयसे ति पुरो भणनात् शिवाभिलाषिणी, रुचिर्लक्षणयाऽभिप्रायो यस्य शिवस्येत्यर्थः। सदेव दातुं शक्यमित्याह-हे शिवश्रीवर ! सुष्ठु हितैः शिवसुखैस्तत्त्वैर्वा भवद्दर्शितैः, सुहितं-ध्राणं गतभवाकाङक्षं चेतो यस्य । शिवाय । सुखेनानायासेन लोकरूढया उर्वीधरणः यः स चासौ भोगी स्वामी च तेनाऽऽसेव्यं ।।२३।। चिररुचिररुचस्ते वर्धमानाऽक्षरश्री
दयित ! दयितभव्यश्रेयसः शासनस्य । परमपरमत श्रीजैत्र ! भक्तः सदा स्या
मुदयमुदयपात्रं यल्लभे शर्म नित्यम् ॥२४॥
"Aho Shrut Gyanam"