________________
त्रिदश-तरङ्गिणी
२५
'भवेत्यादि । विशर ! सदाघे भवे येऽङ्गभाजः ते नति शिवाय आदरात् आरुः एषां हि पाणिपयोरुहेषु सारा रमाः रम्यां स्थेमानं नयानि ॥७॥
न याचे शक्रतां देव ! , चक्रितां विभवं न च । विभो ! बेडावदाननं, भबाम्भोधेर्महाभयात् ॥८॥
क्रियागुप्तकम् । 'न याचे'त्यादि । हे शक्रतादेव ! चक्रिता विभवं च न याचे महाभयात भवाम्भोधे.डावद् आननं अव । गुप्तक्रियाद्यैरिति यं भवद्विषज्जयश्रिया वृत्तवरैः स्तुवे जिनम् । चित्तेऽस्तु मे नाम सदादिभेदतः, स विश्वकालत्रितयं पवित्रयन् ।।९।।
एवं नित्यनिरञ्जनाऽव्ययपदं श्रीतीर्थनाथं मुदा, शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयै रविरतं स्फूर्जत्प्रमोदाद्वयो, मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥१०॥
इति-युगप्रधाना० स्रोतसि क्रियादिगुप्तकरूपविश्वकालत्रयव्यापिजिन स्तवाष्टकनामा दशमस्तरङ्गो द्वितीयपुटभेदरूपः ।।
एकादशस्तरङ्गः। जय श्रीमन् ! पावं ! त्रिभुवन विभो ! विश्वजनता स्फुरद्विघ्नध्वान्तप्रहणनतबोष्णांशुरमला । शरण्या भीतानां सकलजगतां वज्रनिलयः स जीरापल्लीस्थः प्रकटमहिमाम्भोधिरतुलः ॥१॥ काले ह्यस्मिन् कराले कवलितसकलोद्दामदेवप्रभावप्रोत्तुभ्यत्सर्वदेशे प्रवलखलजने दुःखिताशेषसाधौ । व्यावल्गन् म्लेच्छमालाबहुलकलकलोच्छालिताकालकाले, दीनानां नीतिभाजां जयसि भवभृतां रक्षितैकस्त्वमेव ।।२।।
"Aho Shrut Gyanam"