________________
२४
त्रिदश-तरङ्गिणी क्रिया १ कर्तृ २ क्रिया ३ रूपत्रिगुप्तकम् । 'जडै' रित्यादि। त्वां विना परः जडैनिषेवितुं कियत् अकामि, ततः ग्रहिला अमी, व्यामोहभाक्तू न शिवं न आददते तत् विज्ञालि: तवैव स्तुतौ बुधैरयात् ॥३॥ सेवां सदाज्ञाहित एव विस्फुरद्, भयं त्यजद्विश्वमिहाय॑ते न यत् । इदं विभो ! वैरिहर ! त्वमेव तत्, कथं विलम्बौ वनवीतकीलक: ।
क्रियात्रय कर्तृकर्मत्रय त्रयरूपनवगुप्तकम् । 'सेवा'मित्यादि । हे अज्ञ ! अहित एव विस्फुरद् भयं त्यजत् सेवां सद (हे) अय॑ ! ते विश्वमिदमनयत्, हे वैरिहर ! विभो ! त्वमेव वीतकीलक: विलम्बौ कथं च न (?) ।।४।। अहन्नस्ततमः पाप (पा) हित्वा मे भजतो मनः ।
देव त्वं नृपतारामा-लक्ष्मीभोगरसान् पुनः । ५।। कर्तृ १ कर्म २ क्रियाद्वय ४ रूपचतुर्गुप्तकम् ।
'अर्हन्नस्ते' त्यादि । त्वां भजतो मे मनः हे अर्हन् ! अस्ततमः पापाहि, देव नृपतार ! त्वं अलक्ष्मीभोगरसान् पुनः आरम (अम) ॥५॥ योऽध्वा शिवपथे तात ! प्रभ ! विष्टपपावनः । महिमानं नते सोऽपि, सुभक्त्यामम योचितः ।।६।।
क्रियाद्वयगुप्तकम् । 'योऽध्वेत्यादि । तात प्रभ ! विष्टपप अव नो योऽध्वा शिवपथे, महिमानं नते सुभक्त्यां सोऽपि याः (य उचितः अम)
भवे सदाधे विशरारुरङ्ग-भाज: शिवायानतिमादरात्ते । सारारमापाणिपयोरुहेषु, स्थेमानमेषां हि नयानि रम्याम् ॥७।।
क्रियाद्वयगुप्तकम् ।
"Aho Shrut Gyanam"