________________
त्रिदश-तरङ्गिणी
२३
एवं यो मतिमान् स्तुते जिनवरान् भक्त्या चतुर्विंशति,
शकालीमुनिसुन्दरस्तवगणतक्रमाम्भोरुहान् । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाद्वयो,
मोहद्वेषिजय श्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ।।२८।। इतियुगप्रधाना० चरमजिनाष्टकस्तवाशीर्वादनामा नवमस्तरङ्गः ।। सम्पूर्णश्चायं चतुर्विशतिजिनस्तवाशीर्वादनामा ह्रदः प्रथमः ।। वक्ष्यमाणत्रयोविंशतिस्तोत्ररत्नेषु प्रथम
रत्नमपीदमेवाष्टकत्रिकमयम् । सुखावहं वीक्ष्यसिताङ्गतामा-दरं विरक्तः शिवशर्म लात्वा । भव्यां गिरोरीकृतिमाप्य साधुयायीलये रङ्गभराद्रिपोऽते ।।१।। ___कारकषटक-सम्बन्धक्रियारूपाऽष्टगुप्तकम् ।
'सुखावह' मित्यादि । अते-रिपो असिताङ्गत सहं वीक्षी शिवशर्म लात्वा भव्यां गिरा ऊरीकृतिमाप्य साधुयायीलये रङ्गभरात अरं विरक्तः सूखौ अमात् ।।१।। विश्वत्रयीवन्द्यपदान्ति केन, न ते श्रितेन स्तवनं स्ववाण्या । न योगिनां हृत् सुजगत्प्रसिद्धरमानिधे शुद्धगुणैश्च केषाम् ।।२।।
क्रियाद्वयगुप्तकम् । 'विश्वत्रयी'त्यादि । विश्वत्रयीवन्द्यपद ! स्ववाण्या तव स्तवनं श्रितेन केन योगिनां हृत् न आन्ति हे अनिधे ! सुजगत्प्रसिद्धः शुद्धगुणैश्च केषां हृद् न अम ॥२॥ जडैजिनाकाम (मि) कियनिषेवितुं,
परो विना त्वां ग्रहिला ह्यमी ततः । व्यामोहभाक्त्वाददते शिवं न तत्,
तवैव विज्ञालिरयात् स्तुतौ बुधैः ॥३॥
"Aho Shrut Gyanam"